________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६ तत्त्वार्थवृत्ती
[ ६८ तद्र्व्यमधिकरणमुच्यते । सर्वोऽपि शुभाशुभलक्षण आस्रवो यद्यप्यात्मनो भवति जीवस्य सञ्जायते तथापि य आस्रबो मुख्यभूतेन जीवेन ‘उत्पाद्यते तस्यास्रवस्य जीवोऽधिकरणं जीवद्रव्यमाश्रयो भवति । यस्तु आस्रवोऽजीवद्रव्यमानित्य जीवस्योत्पद्यते तस्य आस्रवस्याधिकरणमाश्रयोऽजीवद्रव्यमुच्यते । जीवाश्च अजीवाश्च जीवाजीवाः, तेषां लक्षणं पूर्वमेवोक्तम् "जीवाजीवास्रववन्धसंवरनिर्जरामोक्षास्तत्त्वम्" [ त० सू० १।४] इत्यधिकारे। यदि जीवाजीवलक्षणं पूर्वमेवोक्तं तेनैवाधिकारेण जीवाजीवा लभ्यन्ते किं पुनः जीवाजीवग्रहणेन ? साधूक्तं भवता; अधिकरणविशेषज्ञापनार्थम् पुनर्जीवाजीवग्रहणम्-अधिकरणविशेषस्तु झापनीय एव तेन पुनर्जीवाजीवग्रहणं कृतम् । कोऽसावधिकरणविशेषः ? हिंसाधुपकरणभावः ।
भवतु नामै जीवश्चाजीवश्च जीवाजीवौ एवं द्विवचने अभ्रेषप्राप्ते बहुवचनं किमर्थ १० कृतम् ? युक्तमुक्तं भवता, द्विवचने प्राप्ते यद् बहुवचनेन निर्दिश्यते तेन जोवाजीवयो.
ईव्ययोर्ये सन्ति पर्यायास्तेऽप्यास्त्रवस्याधिकरणं "भवन्ति तेन बहुवचनं युक्तमेव । ___अथ जीवाधिकरणाऽजीवाधिकरणयोर्मध्ये जीवाधिकरणभेदपरिज्ञापनार्थ योगो
ध्यमुच्यते
आद्यं संरम्भसमारम्भारम्भयोगकृतकारितानुमतकषायविशेषस्त्रि
स्विस्त्रिश्चतुश्चैकशः ॥ ८ ॥ आदौ भवं आद्यम् । संरम्भश्च समारम्भश्च आरम्भश्च संरम्भसमारम्भारम्भा योगाश्च ते कृतकारितानुमताश्च योगकृतकारितानुमताः, योगकृतकारितानुमताश्च कषायविशेषाश्च योगकृतकारितानुमतकषायविशेषाः, संरम्भसमारम्भारम्भा योगकृतकारितानुमतकषायविशेषरुपलक्षिताः संरम्भसमारम्भारम्भयोगकृतकारितानुमतकषायविशेषास्तैस्तथोक्तः । त्रिःत्रीन् वारान् , २० पुनश्च त्रिः त्रीन् वारान् , पुनश्च त्रिः त्रीन् वारान् , चतुश्चतुरो वारान् , एकशः एकैकं प्रति
संरम्भं समारम्भम् आरम्भं प्रति गणनं भवति । तेषामेव संरम्भादोनामेव चतुर्भिः कषायैश्च गणनं भवति । आयं जीवाधिकरणम् आस्रवोत्पादकं भवति । अस्यायमर्थः-प्रमादवतो जीवस्य प्राणव्यपरोपणादिषु प्रयत्नावेशः संरम्भं उच्यते । प्राणव्यपरोपणादीनाम् उपकरणाभ्या
सकरणं समारम्भः कथ्यते । प्राणव्यपरोपणादीनां प्रथमारम्भ एव आरम्भ उच्यते । काय२५ वाङ्मनोलक्षणस्त्रिविधो योगः । कृतः स्वतन्त्रेण विहितः । कारितः परप्रयोजकत्वम् । अनु
मतः केनचित क्रियमाणे प्राणव्यपरोपणादौ अनुमोदनम् । कषायाः क्रोधमानमायालोभाः । अर्थोऽर्थान्तराद् विशिष्यते यः स विशेषः । स विशेषशब्दः प्रत्येकमभिसम्बद्ध्यते-संरम्भविशेषः समारम्भविशेषः आरम्भविशेष इत्यादि । त्रयः संरम्भसमारम्भारम्भाः। त्रयो योगाः। त्रयः
१ उत्पद्य- ता., आ०, ३० । २ -स्याधि- आ०, ब०, ज०। ३ न्यायप्राप्त । ४ -योर्ये भा०, ब०, ज०। ५ भवति आ., ब०, ज०। ६ कथ्यते आ०, ब०, ज.। ७ -पः प्र- आ०, ब०, जः।
For Private And Personal Use Only