SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६१६-७ ] षष्ठोऽध्यायः २१५ अथ योगत्रयं सर्वसाधारणम् , तदास्रक्बन्धफलानुभवनं तु विशेषवद् वर्तते जीवपरिणामानन्तविकल्पत्वात्। स तु फलानुभवनलक्षणो विशेषः तत्सङ्क्षपसूचनार्थ सूत्रमिदमुच्यते तीव्रमन्दज्ञाताज्ञातभावाधिकरणवीर्यविशेषेभ्यस्तद्विशेषः ॥ ६॥ ___ बहिरन्तःकारणोदीरणवशात् तीव्रते स्थूलो भवति उद्रेकं प्राप्नोति उत्कटो भवति यः परिणामः स तीव्र इत्युच्यते। मन्दते अल्पो भवति अनुत्कटः सजायते यः परिणामः स ५ मन्द उच्यते। 'हनिष्यामि एतं पुमांसमिति ज्ञात्वा प्रवर्तनं ज्ञातमित्युच्यते। मदेन प्रमादेन वा अज्ञात्वा हननादौ प्रवर्तनम् अज्ञातमिति भण्यते। अधिक्रियन्ते अर्थाः यस्मिन्निति अधिकरणं द्रव्यमित्यर्थः। द्रव्यस्य पुरुषादेनिजशक्तिविशेषो वीर्यमुच्यते । भावशब्दः प्रत्येक मभिसम्बध्यो, तेनायमर्थः-तीव्रभावश्च मन्दभावश्च ज्ञातभावश्च अज्ञातभावश्च अधिकरणश्च वीर्यञ्च तीव्रमन्दज्ञाताज्ञातभावाधिकरणवीर्याणि, तेषां विशेषा भेदाः तीत्रमन्द- १० ज्ञाताज्ञातभावाधिकरणवीर्यविशेषाः, तेभ्यस्तीमन्दज्ञाताज्ञातभावाधिकरणवीर्यविशेषेभ्यः । तस्य आस्रवस्य विशेष तद्विशेषः। क्रोधरागद्वेषशिष्टाशिष्टप्राणिसंयोगदेशकालाद्यनेकबहिःकारणवशात् इन्द्रियकषायव्रतक्रियाणां कुत्रचिदात्मनि तीब्रो भावो भवति तस्य तीव्र आस्रवः स्यात् , इन्द्रियकषायाव्रतक्रियाणां कुत्रचिदात्मनि मन्दो भावो भवति निर्बलः परिणामः स्यात् तस्य मन्द आस्रवो भवति । इन्द्रियकषायावतक्रियाप्रवर्तने कस्यचिदात्मनः ज्ञातत्वं भवति तस्य १५ महान् आस्रवः स्यात् । इन्द्रियादीनामज्ञातभावे प्रवृत्तौ सत्याम् अल्पास्रवः स्यात् । तथा अधिकरणविशेषेऽपि सति आस्रवस्य विशेषो भवति, यथा वेश्यादीनामालिङ्गने अल्पास्रवः स्यात् राजपत्नी लिङ्गिनीप्रभृत्यालिङ्गने महान् आस्रवो भवति । वीर्यविशेषे च वर्षभनाराचसंहननमण्डितपुरुषहषीकादिव्यापारे महानास्रवो भवति, अपरसंहननसंयुक्तपुरुषपापकर्मकरणे अल्पास्रवो भवति, अल्पादप्यल्पो भवति, तत्रापि वीर्यविशेषान्तर्भावात् । एवं २० क्षेत्रकालादावपि आस्रवविशेषो वेदितव्यः। गृहब्रह्मचर्यभोऽल्पास्रवः स्यात् , देवभवनब्रह्मचर्यभङ्गे महानानवः स्यात् , तस्मादपि तीर्थमार्गे महानास्रवः स्यात् , तीर्थमार्गादपि तीर्थे महानवो भवेत् । एवं कालादौ, देववन्दनाकाले परकालात् महास्रवः स्यात् । एवं पुस्तकादिद्रव्यादौ आस्रवभेदो मन्तव्यः। तस्य भेदा अनन्ता इति कारणभेदात् कार्यभेद इति । ___ अथ अधिकरणं यदुक्तं तत्स्वरूपं न ज्ञायते, तत् कीदृशमिति प्रश्ने सूत्रमिदं २५ बभणुराचार्याः अधिकरणं जीवाजीवाः ॥७॥ अधिक्रियन्तेऽर्था अस्मिन्नित्यधिकरणं द्रव्यमुच्यते । यद्रव्यमाश्रित्य आस्रव उत्पद्यते १ हरिष्यामि तं आ०, ब०, ज०। २ --क्रिया प्रवर्ते- आ०, ब०, ज०। ३ ज्ञातव्य भ- भा०, ब०, ज.। ४ - सति मा०, ब०, ज०। ५ भिक्षुणी । ६.-नेन म- भा०, ब०, ज०। ७ वज्रवृष- आ०, ब०, ज० । ८ -पान्तराभा- आ०, ब०, ज०। ९ महास्रवः ता० । १० महानासवो भा०, ब०, ज० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy