________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१४
तत्त्वार्थवृत्तो अथ सकषायस्य आस्रवस्य भेदपरिज्ञापनार्थं सूत्रमिदमुच्यतेइन्द्रियकषायावतक्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसङ्ग्न्याः पूर्वस्य भेदाः ॥५॥
इन्द्रियाणि च कषायाश्च अब्रतानि च क्रियाश्च इन्द्रियकषायाप्रतक्रियाः । पञ्च च चत्वारश्च पञ्च च पञ्चविंशतिश्च पञ्चचतुःपञ्चपञ्चविंशतयः ता सङ्ख्या यासाम् अनुक्रमेण इन्द्रियकषायात्रतक्रियाणां ताः पश्चचतुःपञ्चपञ्चविंशतिसङ्ख्याः। अस्यायमर्थः-स्पर्शनरसनघ्राणचक्षुश्श्रोत्राणि निजनिजविषयव्यापृतानि पूर्वोक्तनि इन्द्रियाणि पश्च । क्रोधमानमायालोभलक्षणोपलक्षिता वक्ष्यमाणस्वरूपाः कषायाश्चत्वारः। हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्योऽविरतिलक्षणोपलक्षितानि वक्ष्यमाणानि अव्रतानि पञ्च । साम्प्रतं व्यावर्ण्यमानाः पञ्चविंशतिक्रियाः । एते चत्वारो राशयः पूर्वस्य साम्परायिकास्रवस्य भेदाः प्रकाराः भवन्ति ।
तत्र पञ्चविंशतिक्रियास्वरूपं निरूप्यते-चैत्यगुरुप्रवचनार्चनादिस्वरूपा सम्यग्दर्शनवर्धिनी अन्यक्रियाभ्यो विशिष्टा सम्यक्त्वक्रिया। १ । परदेवतास्तुतिरूपा मिथ्यात्वप्रवृत्तिकारणभूता मिथ्यात्वक्रिया ।२। गमनागमनादिषु मनोवाक्कायैः परप्रयोजकत्वं प्रयोगक्रिया ॥३॥ संयतस्य सतः अविरत्याभिमुख्यं प्रयत्नेनोपकरणादिग्रहणं वा समादानक्रिया ।४।
ईर्यापथकर्म हेतुका ईर्यापथक्रिया । ५। क्रोधाविष्टस्य दुष्टत्वं प्रादोषिकी क्रिया ।६। प्रदुष्टस्य १५ सतः कायाभ्युद्यमः कायिकी क्रिया ।७। हिंसोपकरणग्रहणात् आधिकारिणिकी क्रिया । ८ ।
दुःखोत्पत्तौ परितप्तिपरवशत्वं पारितापिकी क्रिया।९। दशप्राणवियोगकरणं प्राणातिपातिको क्रिया । १० । रागाीकृतस्य प्रमादवतः हृद्यरूपविलोकनाभिनिवेशो दर्शनक्रिया । ११ । प्रमादपरतन्त्रस्य कमनीयकामिनीस्पर्शनानुबन्धः स्पर्शनक्रिया। १२ । अपूर्वहिंसादिप्रत्ययविधानं
प्रतीतिजननं प्रात्यायिकी क्रिया ।१३। स्त्रीपुरुषपश्वाद्यागमनप्रदेशे मलमूत्राद्युत्सर्जनं समन्तानु२० पातनक्रिया।१४। अप्रतिलेखिताऽनिरीक्षितप्रदेशे शरीरादिनिक्षेपणमनाभोगक्रिया ।१५। कर्म
करादिकरणीयायाः क्रियायाः स्वयमेव करणं स्वकरक्रिया । १६ । पापप्रवृत्तौ परानुमतदानं निसर्गक्रिया ।१७। परविहितगुप्तपापप्रकाशनं विदारणक्रिया । १८ । चारित्रमोहोदयात् जिनोतावश्यकादिविधानासमर्थस्य अन्यथाकथनम् आज्ञाव्यापादनक्रिया ।१९। शठत्वेन अलसत्वेन
च जिनसूत्रोपदिष्टविधिविधानेऽनादरः अनाकाङ्क्षा क्रिया ।२०। प्राणिच्छेदनभेदनहिंसनादि२५ कर्मपरत्वं प्राणिच्छेदनादौ परेण विधीयमाने वा प्रमोदनं प्रारम्भक्रिया । २१ । परिग्रहाणा
मविनाशे प्रयत्नः पारिग्राहिकी क्रिया । २२ । ज्ञानदर्शनचारित्रतपस्सु तद्वत्सु पुरुषेषु च मायावचनं वञ्चनाकरणं मायाक्रिया । २३ । मिथ्यामतोक्तक्रियाविधानविधापनतत्परस्य साधु त्वं विदधासीति मिथ्यामतदृढनं मिथ्यादर्शनक्रिया । २४। संयमघातककर्मविपाक
पारतन्त्र्यान्निर्वृत्तौ अवर्तनम् अप्रत्याख्यानक्रिया । २५ । एताः पञ्चविंशतिक्रिया ज्ञातव्याः । ३० इन्द्रियाणि कषाया अव्रतानि च त्रयो राशयः कारणभूताः, पञ्चविंशतिस्तु क्रियाः कार्यरूपाः
प्रवर्तन्त इति इन्द्रियादिभ्यः क्रियाणां भेदो वेदितव्यः। साम्परायिकासव उक्तः ।
१-नाथना- भा०, ५०, ज० । २ -तप्त्यं प- ता० । ३ -त्रादिव्युत्स~ आ०, २०, ज०।
For Private And Personal Use Only