________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६।४] षष्ठोऽध्यायः
२१३ 'भो विद्वन् , त्वमुपोषितो वर्तसे तेन त्वं पठनं मा कुरु विश्रभ्यताम्' इति, तेन हितेऽप्युक्तेऽपि ज्ञानावरणादि प्रयोक्तुर्भवति, तेन एक एवाशुभयोगोऽङ्गीक्रियताम् , शुभयोग एव नास्ति; सत्यम् । स यदा हितेन परिणामेन पठन्तं विश्नमयति तदा तस्य चेतस्येवेमभिप्रायो वर्तते'यदि इदानीमयं विश्राम्यति तदाऽने अस्य बहुतरं तपःश्रुतादिकं भविष्यति' इत्यभिप्रायेण तपःश्रुतादिकं वारयन्नपि अशुभास्रवभाग न स्यात् विशुद्धिभापरिणामहेतुत्वादिति। तदुक्तम्- ५
"विशुद्धिसङ्क्लेशाङ्ग चेत् स्वपरस्थं सुखासुखम् । पुण्यपापास्रवो युक्तो न चेद् व्यर्थस्तवाईतः ॥१॥" [आप्तमी० श्लो० ९५]
अथेदानी ययोर्जीवयोः ययोः कर्मणोः आस्रवो भवति तावात्मनौ ते कर्मणी च कथ्येते
सकषायाकषाययोः साम्परायिकर्यापथयोः ॥ ४॥ १० कषशिषजषझषवषमषरुषरिषयूषजूषहिंसार्थाः । कषति हिनस्त्यात्मानं दुर्गतिं प्रापयतीति कपायः। अथवा, कषायो न्यग्रोधत्वविभीतकहरीतकादिकः वस्त्रे मञ्जिष्ठादिरागश्लेषहेतुर्यथा तथा क्रोधमानमायालोभलक्षणः कषायः कषाय इव आत्मनः कर्मश्लेषहेतुः। सह कषायेण वर्तते य आत्मा मिथ्यादृष्ट्यादिः स सकषाय इत्युच्यते । पूर्वोक्तलक्षणः कषायो न विद्यते यस्य उपशान्तकषायादेः सोऽकषाय इत्युच्यते । सकषायश्च १५ अकषायश्च सकषायाकषायो तयोः सकषायाकषाययोः षष्ठीद्विवचनमत्र । सं सम्यक् पर उत्कृष्टः अयो गतिः पर्यटनं प्राणिनां यत्र भवति स सम्परायः संसार इत्यर्थः, सम्परायः प्रयोजनं यस्य कर्मणः तत् कर्म साम्परायिकम् , संसारपर्यटनकारकं कर्म साम्परायिकमित्युच्यते । ईर गतौ कम्पने च । ईरणम् ईर्या। "ऋवर्णव्यञ्जनान्ताद् ध्यण" [ का० सू० ४।२।३५ ] ईयेति कोऽर्थः ? योगो गतिः योगप्रवृत्तिः कायवाङ्मनोव्यापारः कायवाङ्मनोवर्गणावलम्बी २० आत्मप्रदेशपरिस्पन्दो जीवप्रदेशचलनम् ईर्येति भण्यते । तद्वारकं कर्म ईर्यापथमुच्यते । तदेव कषायादिकं द्वारमास्रवमार्गो यस्य कर्मणः तत्तद्वारकम् । साम्परायिकञ्च ईर्यापथञ्च साम्परायिकर्यापथे तयोः साम्परायिकेर्यापथयोः । अत्रापि षष्ठीद्विवचनम् । अस्यायमर्थः सकषायस्य मिथ्यादृष्टीवस्य साम्परायिकस्य संसारपरिभ्रमणकारणस्य कर्मणः आस्रवो भवति । अकषायस्य उपशान्तकषायादिकस्यात्मनः ईर्यापथस्य संसारेऽपरिभ्रमणहेतोः कर्मण आस्रवो २५ भवति । ईर्यापथकर्मास्रवः संसारापरिभ्रमणकारणं कथम् ? अकषायस्य उपशान्तकषायादेयोगवशादुपात्तस्य कर्मणः कषायाभावाद् बन्धाभावे सति शुष्ककुड्यपतितलोष्टवद् अनन्तरसमये निवर्तमानस्य ईर्यापथस्यास्रवः बन्धकारणं न भवति यस्मात् । सकषायस्य तु आत्मनो मिथ्यादृष्ट्यादेर्योगवशादानीतस्य स्थित्यनुभागबन्धकारस्य साम्परायिकस्य कर्मणः आस्रवो भवकारणं भवति यस्मात् । अत्र सकषायस्य साम्परायिकस्यास्रवो भवति । अकषायस्य ३० ईर्यापथस्य आस्रवो भवतीति यथाक्रमं वेदितव्यम् ।
१ विश्राम- आ०, ब०, ज० । २ विश्रभ्य- ता० । ३ -कारकसा- आ०, ५०, ज०।
For Private And Personal Use Only