________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२ तत्त्वार्थवृत्ती
[६३ दन्त्यो ज्ञातव्यः', न तालव्यः । "षुस्र दुऋच्छगमृसृप गतौ”[ ] इति सूत्रोक्तधातोः प्रयोगात् । यथा सरोवरजलवाहक सरोवरद्वार जलास्रवणहेतुत्वात् प्रणालिका आस्रव उच्यते, तथा योगप्रणालिकया जीवस्य कर्म समास्रवतीति त्रिविधोऽपि योग आस्रव इति व्यपदिश्यते। दण्डकपाटप्रतरलोकपूरणलक्षणो यो योगो वर्तते स योगोऽनास्रवरूपोऽप्यस्ति भिन्नः। यथा आर्द्रमंशुकं समन्ताद् मरुदानीतं रजःसमूहं गृह्णाति, तथा कषायजलेनाद्रो जीवः त्रिविधयोगोंदानीतं कर्म सर्वप्रदेशैरुपादत्ते। अथवा, अन्योऽप्यस्ति दृष्टान्तः । यथा तप्तलोहपिण्डः पयसि निक्षिप्तः समन्ताद्वारि गृह्णाति, तथा कषायसन्तप्तात्मा त्रिविधयोगानीतं कर्म परिगृहाति "मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्ध
हेतवः " [त० सू० ८।१ ] इति य उक्त आस्रवः स सर्वोऽपि त्रिविधयोगेऽन्तर्भवतीति १० वेदितव्यम्।
अथ कर्म द्विप्रकारम्-पुण्यं पापञ्च। तस्य कर्मण आस्रवणहेतुर्योगः। सं किम् अविशेषेणास्रवणहेतुरथवाऽस्ति कश्चिद्विशेष इति प्रश्ने सति आस्रवस्य विशेषसूचनार्थं सूत्रमिदमाहुः
शुभः पुण्यस्याशुभः पापस्य ॥३॥ १५ शोभते शुभः। पुनात्यात्मानमिति पुण्यम् , पूयते पवित्रीक्रियते" आत्माऽनेनेति वा
पुण्यम् , सद्वेद्यशुभायुर्नामगोत्रलक्षणम् , तस्य पुण्यस्य । न शोभते अशुभः । पात्यवति रक्षति आत्मानं कल्याणादिति पापम् , असद्वेद्याशुभायुरशुभनामाशुभगोत्रलक्षणम् , तस्य पापस्य । शुभो योगः पुण्यस्य आस्रवहेतुः, अशुभो योगः पापस्यास्रवहेतुरिति विशेषः। तत्र
प्राणिरक्षणाचौर्यब्रह्मचर्यादिः शुभः काययोगः। सत्यहितमितमृदुभाषणादिः ‘शुभो वाग२० योगः। अहंदादिभक्तिस्तपोरुचिःश्रुतविनयादिश्व शुभो मनोयोगश्चेति। विशुद्धपरिणामजनितात्रयः शुभयोगाः । तथा प्राणातिपाताऽदत्तादानमैथुनादिकः अशुभः काययोगः । असत्याहितामितकर्कशकर्णशूलप्रायभाषणादिः अशुभो वाग्योगः। वधचिन्ताभिसयादिकः अशुभो मनोयोगः। एते त्रयोऽप्यशुभयोगाः अशुभसक्लिष्टपरिणामजनिता भवन्ति
पापकर्मोपार्जनहेतुभूतातरौद्रध्यानपरिणामैरुत्पादिता भवन्तीत्यर्थः । शुभो योगः शुभफलकर्म२५ पुद्गलहेतुः। अणु भो योगः अशुभफलकर्मपुद्रलहेतुर्भवति । शुभपरिणामनिर्वृत्तो निष्पन्नो
योगः शुभः कथ्यते । अशुभपरिणामनिवृत्तो निष्पन्नो योगः अशुभः कथ्यते, न तु शुभाशुभकर्महेतुमात्रत्वेन शुभाशुभौ योगौ वर्तेते। तथा सति सयोगकेवलिनोऽपि शुभाशुभकर्मप्रसङ्गः स्यात् , न च तथा। ननु शुभयोगोऽपि ज्ञानावरणादिबन्धहेतुर्वर्तते । यथा केनचिदुक्तम्
१ - व्यः घु- आ, ब०, ज० । २ -था सरोवरद्वा- आ०, ब०, ज० । ३ –णो योगी वआ०, ब०, ज०। ४ -स्ति तन्न आ०, ब०, ज०। ५ -योगनी- ता०। ६ -णास्रवहे- आ०. ब०, ज०। ७ -तेऽने- आ०, ब०, ज०। ८ शुभवा-- सा०। ९ -भका- भा०, ब०, ज० । १० -शुभवा- आ०, ब०, ज.। ११ -शुभयो- आ०,०, ज.1
For Private And Personal Use Only