SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्टोऽध्यायः अथ अजीवपदार्थव्याख्यानन्तरम् आस्रवपदार्थव्याख्यानार्थं सूत्रमिदमुच्यतेकायवाङ्मनःकर्म योगः ॥ १ ॥ चीयते कायः । उच्यते वाक् । मन्यते मनः । क्रियते यत्तत्कर्म योजनं योगः । कायश्च वाक् च मनश्च कायवाङ्मनांसि कायवाङ्मनसां कर्म कायवाङ्मनः कर्म-शरीरवचनमानसानां यत्कर्म क्रिया स योग इत्युच्यते आत्मनः प्रदेशचलनं योगः | योगो ५ निमित्तभेदात् त्रिप्रकारो भवति । ते के त्रयः प्रकाराः ? कायनिमित्तात् आत्मनः काययोगः । बानिमित्तादात्मनो वाग्योगः । मनोनिमित्तादात्मनो मनोयोगः । तत्र काययोगो वीर्यान्तरायक्षयोपशमे सति औदारिक- औदारिकमिश्र - वैक्रियिक-वैक्रियिकमिश्राहारकाहारकमिश्र - कार्मणलक्षणसप्तप्रकारशरीरवर्गणानां मध्ये अन्यतमवर्गणालम्बनापेक्षम् आत्मप्रदेशचलनं परिस्पन्दनं परिस्फुरणं काययोग उच्यते । शरीर नामकर्मोदयो - १० पादितवावर्गणालम्बने सति वीर्यान्तरायक्षयोपशमे सति मतिज्ञानावरणक्षयोपशमे सति अक्षरादिश्रुतज्ञानावरणक्षयोपशमे सति अभ्यन्तरवचनलब्धिसामीप्ये च सति वचनपरिणामाभिमुखस्य जीवस्य प्रदेशानां परिस्पन्दनं चलनं परिस्फुरणं वचनयोग उच्यते । सत्यासत्योभयानुभयभेदात् स चतुर्विधो भवति । अभ्यन्तरवीर्यान्तर/यमानसावरणक्षयोपशम स्वरूपमनोलब्धिये सति बाह्यकारणमनोवर्गणावलम्बने च सति चित्तपरिणाम सन्मुखस्य १५ जीवस्य प्रदेशानां परिस्पन्दनं परिचलनं परिस्फुरणं मनोयोग इति मन्यते । सत्यासत्योभयानु - भयभेदात् सोऽपि चतुः प्रकारः । कायादिचलनद्वारेण आत्मनश्चलनं योग इत्यर्थः । सयोगकेवलिनस्तु वीर्यान्तरायादिक्षये सति त्रिप्रकारवर्गणालम्बनापेक्षम् आत्मप्रदेशपरिस्पन्दनं परिचलनं परिस्फुरणं योगो वेदितव्यः । सयोगकेवलिनो" योगोऽचिन्तनीयः । तथा चाभाणि समन्तभद्रस्वामिना - २० "कायवाक्यमनसां प्रवृत्तयो नाभवंस्तव मुनेश्चिकीर्षया । नासमीक्ष्य भवतः प्रवृत्तयो धीर तावकमचिन्त्यमीहितम् ॥ १ ॥" [ बृहत्स्व० श्लो० ७४ ] अभ्युपगतो योगस्तावत् त्रिविधः । प्रतिज्ञात आस्रव उच्यतामिति प्रश्ने सूत्रमिदमाहुः - स आस्रवः ॥ २ ॥ २५ स पूर्वोक्तस्त्रिविधोऽपि योग आस्रवः कथ्यते । आस्रवति आगच्छति आत्मप्र देशसमीपस्थोऽपि पुलपरमाणु समूहः कर्मत्वेन परिणमतीत्यास्रवः । अत्र आस्रवशब्दस्य सकारो १ -क्षया आ- आ०, ज०, ब० । २ - दिलक्षणद्वारेण आ०, ज०, ब० । ३ - येऽपि सति ता० । ४ - पेक्षाया आ- आ०, ब० ज० । ५ - नोड्यो- ता० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy