________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[५/४१-४२
२१०
तत्त्वार्थवृत्ती द्रव्याश्रया निर्गुणा गुणाः ॥ ४१ ॥ द्रव्यमाश्रयो येषां ते द्रव्याश्रयाः। गुणेभ्यो निष्क्रान्ता निर्गता निर्गुणाः। एवं विशेषणद्वयविशिष्टा ये ते गुणा भवन्ति । निर्गुणा इति विशेषणं द्वणुकत्र्यणुकादिस्कन्धनिषे
धार्थम् , तेन स्कन्धाश्रया गुणा गुणा नोच्यन्ते । कस्मात् ? कारणभूतपरमाणुद्रव्याश्रयत्वात्। ५ । तस्मात् कारणात् निर्गुणा इति विशेषणात् स्कन्धगुणाः गुणा न भवन्ति पर्यायाश्रयत्वात् । ननु
घटादिपर्यायाश्रिताः संस्थानादयो ये गुणा वर्तन्ते तेऽपि द्रव्याश्रया निर्गुणाश्च वर्तन्ते, तेषामपि संस्थानादीनां गुणत्वमास्कन्दति द्रव्याश्रयत्वात् , यतो घटपटादयोऽपि द्रव्याणीत्युच्यन्ते । साध्वभाणि भवता; ये नित्यं द्रव्यमाश्रित्य वर्तन्ते त एव गुणा भवन्ति न तु पर्यायाश्रया
गुणा भवन्ति, पर्यायाश्रिता गुणाः कादाचित्काः-कदाचित् भवाः वर्तन्ते इति । १० अथ अनेकवारान् यः परिणामशब्दः श्रुतस्तस्यार्थो न ज्ञायते, स वक्तुमवतारयितुं
योग्य इति प्रश्ने अध्यायस्य समाप्तौ सूत्रमिदमुच्यते तद्भावः परिणामः। अथवा अन्यकार्यसूचनार्थं तद्भावः परिणाम इति सूत्रमुच्यते । किं तदन्यत् कार्यम् ? केचित् वदन्ति गुणा द्रव्यादर्थान्तरभूताः, तत्किमाई तानामभीष्टम् ? नाभीष्टम् । यद्यपि व्यपदेशादिभेदहेतुना
द्रव्यात् कथञ्चित् भिन्नाः वर्तन्ते-अर्थान्तरभूताः सन्ति गुणाः, तथापि द्रव्यादव्यतिरेकाद् १५ द्रव्यमयत्वाद् द्रव्यपरिणामाच्च अर्थान्तरभूता गुणा न भवन्ति । एवं चेत् सः कः परिणामः स एवोच्यतामिति प्रश्ने परिणामपरिज्ञानार्थं सूत्रमिदमुच्यते--
लद्भावः परिणामः ॥ ४२ ॥ तेषां धर्मादीनां द्रव्याणां येन स्वरूपेण भवनं भावः तद्भावः । तद्भावः कोऽर्थः ? तेषां धर्मादीनां द्रव्याणां तत्त्वं स्वरूपं परिणाम इत्युच्यते । स परिणामः अनादिः सादिश्च २० भवति। गत्युपग्रहादिर्धर्मादीनाम् अनादिः परिणामः। स अनादिपरिणामः सामान्यापेक्षया
भवति । स एव सामान्यः परिणामः विशेषापेक्षया पर्यायरूपः सादिश्च भवति । तेनायमर्थःगुणाश्च पर्यायाश्च द्रव्याणां परिणाम इति सिद्धः ॥ १२ ॥
इति सूरिश्रीश्रुतसागरविरचितायां तात्पर्य संज्ञायां तत्वार्थवृत्तौ पञ्चमः पादः समाप्तः ।
१ -वः तद्भावेति को-व० । -वः को- आ०,ज०,५० । २ इत्यनवद्यगद्यपद्यविद्याविनोदितप्रमोदपीयूषपानपावनमतिसमाजरत्नराजमतिसागरयतिराजराजितार्थनसमर्थेन तर्कव्याकरणच्छन्दोऽलङ्कारसाहित्यादिशास्त्रनिशितमतिना यतिना श्रीमद्देवेन्द्रकीर्ति भट्टारकप्रशिष्येण शिष्येण च सकलविद्वज्जनविहितचरणसेवस्य श्रीविद्यानन्दिदेवस्य सञ्छतिमिथ्यामतदुर्गरेण श्रुतसागरेण सूरिणा विरचितायां श्लोकवार्तिकराजवाति कसर्वार्थसिद्धिन्यायकुमुदचन्द्रादयप्रमेयकमलमार्तण्डप्रचण्डाष्टसहस्रीप्रमुखग्रन्थसन्दर्भनिभरावलोकनबुद्धिविराजितायां तत्त्वार्थटीकायां पञ्चमोऽध्यायः समाप्तः ।। ५ ।। भा०, २० ।
For Private And Personal Use Only