________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५।४० ] पश्चमोऽध्यायः
२०९ कारणात् कालादेशः पृथग विधीयते । यद्यनेकद्रव्यत्वं कालस्य भवद्भिः विधीयते तत् किंप्रमाणमनेकद्रव्यत्वं कालस्य ? उच्यते-लोकाकाशस्य यावन्तोऽसङ्ख्येयप्रदेशा वर्तन्ते तावन्तः कालाणवोऽपि सन्ति । ते तु कालाणवो निष्क्रिया वर्तन्ते एकैकस्मिन् वियत्प्रदेशे एककवृत्त्या सर्व लोकं व्याप्य ते कालाणवः स्थिता वर्तन्ते, पृथक्तया रत्नराशिवत्। तथा चोक्तं नेमिचन्द्रसिद्धान्तदेवेन भगवता
"लोगागासपदेसे एक्केक्के जे द्विया हु एक्केक्का । रयणाणं रासीविव ते कालाणू असंखदव्याणि ॥" [गो० जीय० गा० ५८८] ते तु कालाणवोऽमूर्ता इति वक्तव्याः रूपादिगुणाभावात् ।
अथ वर्तनालिङ्गस्य वरेण्यकालस्य प्रमाणं भणितं भवद्भिः, परिणामादिलक्षणस्य व्यवहारदिष्टस्य प्रमाणं कियत् वर्तते इति प्रश्ने सूत्रमिदमाहुः---
१०
सोऽनन्तसमयः ॥ ४०॥
व्यवहारलक्षणः कालोऽनन्तसमयो वर्तते। अनन्ताः समया यस्येति सोऽनन्तसमयः, यद्यपि वर्तमानव्यवहारकालापेक्षया कालस्यैकः समयो वर्तते तथापि अतीतापेक्षया भविष्यदपेक्षया च अनन्ताः समयाः कालस्य वर्तन्ते । अथवा, एकोऽपि कालाणुर्मुख्यभूतः अनन्तसमय इत्युपचर्यते अनन्तपर्यायवर्तनाहेतुत्वात्। एवंविधे व्याख्याने तु वरेण्यस्यैव कालस्य १५ प्रमाणपरिज्ञापनार्थमिदं सूत्रमुक्तम् । समयस्तावत् परमनिरुद्धः कालांशः उच्यते। परमनिरुद्ध इति कोऽर्थः ? बुद्धघा अविभागभेदेन भेदितः परमाणुवत् भेत्तुं न शक्यते इत्यर्थः । अत्र तु समयशब्देन समयसमूहविशेषः आवलिकोछ्वासादिलक्षणो ज्ञातव्यः । उक्तञ्च
"औवलि असंखसमया संखिजावलिहि होइ उम्सासो। सत्तुस्सासो थोवो सत्तत्थोवो लवो भणिओ । १ ॥ __२० अहतीसद्धलवा गाली दोणालिया मुहुतं तु ।
समऊणं तं भिन्नं अंतमुहुत्तं अणेयविहं ॥" [जंबू० प० १३।५,६] इत्यादिकोऽहोरात्र-पक्ष-मास-ऋतु-अयन-संवत्सर-युग-पल्योपम-सागरोपमादिकः कालः समयोऽत्र गम्यते ।
अथ गुणपर्ययवद्रव्यमिति यदुक्तं तत्र न ज्ञायते के गुणा वर्तन्ते ? 'उच्यन्ताम् ' २५ इति प्रश्ने योगमिमं चक्रुः
१ यद्येक- आ०,५०, ज० । २ उद्धृतेयं स० सि० ५।३९ । ३ आवलि असंख्यसमया संख्यातावलिभिः भवति उच्छ्वासः । सतोच्छ्वासाः स्तोकः सप्तस्तोकाः लवो भणितः। अष्टत्रिंशदर्धलवाः नाली द्वेनालिके मुहूर्त तु । समयोनं तत् भिन्न अन्तर्मुहूर्तमनेकविधम् ।।
२७
For Private And Personal Use Only