________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०८
तत्त्वार्थवृत्तौ
[ ५१३८
द्रव्येभ्यः कथञ्चित् अन्यत्वमाप्नुवन् घटज्ञानादिसमुदायः पर्यायो व्यवहार नयापेक्षया 'द्रव्यमुच्यते । यदि हि सर्वथैकान्तेन घटज्ञानादिसमुदायोऽपि अनर्थान्तरभूत एवोच्यते द्रव्यमेव कथ्यते तदा सर्वाभावो भवेत् समुदाये विघटितं द्रव्यमपि विघटते यस्मात् ।
अथ कालद्रव्यमुच्यते
कालश्च ॥ ३९ ॥
कलयतीति कालः । चकारः परस्परसमुच्चये । तेनायमर्थः:- न केवलं धर्म्माधर्म्माकाशपुद्गला जीवाश्च द्रव्याणि भवन्ति किन्तु कालश्च द्रव्यं भवति द्रव्यलक्षणोपेतत्वात् । द्रव्यस्य लक्षणं द्विप्रकारमुक्तम् —‘उत्पादव्ययधौव्ययुक्तं सत्' 'गुणपर्ययवत् द्रव्यम्' इति च । एतदुभयमपि लक्षणं कालस्य वर्तते, तेन कालोऽपि द्रव्यव्यपदेशभाग् भवति । कालस्य तावत् १० धन्यं स्वप्रत्ययं वर्तते स्वभावव्यवस्थानात् । व्ययोत्पादौ तु कालस्य परप्रत्ययौ वर्तते । न केवलं व्ययोत्पादौ कालस्य परप्रत्ययौ वर्तेते अगुरुलघु गुणवृद्धिहान्यपेक्षया स्वप्रत्ययौ च वर्ते । तथा कालस्य गुणा अपि वर्तन्ते । ते द्विप्रकाराः -- साधारणा असाधारणाच । तत्र साधारणा गुणाः - अचेतनत्वम् अमूर्तत्वं सूक्ष्मत्वम् अगुरुलघुत्वश्चेत्यादयः । असाधारण गुणः कस्य वर्तम् । कालस्य पर्यायास्तु व्ययोदयस्त्ररूपा वेदितव्याः । एवं द्विविधल१५ क्षणोपेतः काल आकाशादिवत् द्रव्यव्यपदेशभाक् सिद्धः । कालस्यास्तित्वलक्षणं वर्तना, धर्मादीनां गत्यादिवत् । ननु कालः पृथक् किमित्युक्तः; 'अजीवकाया धर्माधर्माकाशकालपुद्गलाः [५/१] इत्येवं सूत्रं विधीयताम् ? इत्याह सत्यम्; यद्येवं सूत्रं क्रियते तदा कायत्वप्रसङ्गः कालस्य स्यात् । स तु कायप्रसङ्गः सिद्धान्ते न वर्तते, मुख्यतया उपचारेण च कालस्य 'प्रदेशप्रचयकल्पनाया अभावात् । धर्माधर्माकाशैकजीवानां चेतनानां प्रदेशप्रच्यो मुख्यतयोक्तः २० “असङ्ख्येयाः प्रदेशाः धर्माधर्मैकजीवानाम्, आकाशस्यानन्ता:" [ त सू० ५/८, ९ ] इति वचनात् । एकप्रदेशस्याप्यणोः पूर्वोत्तरभावप्रज्ञापननयेन व्यवहारनयेन उपचारकल्पनेन प्रदेश`श्चय उपचरितः । “सङ्ख्येयासङ्ख्येयाश्च पुद्गलानाम्" [त० सू० ५०१० ] इति वचन(नात् )त्रिविधप्रदेशप्रचयकल्पनं तत्पूर्वोत्तरभावात् । "भूतपूर्वकस्तद्वदुपचारः " [ न्या० सं० न्या० ८ ० ९] इति परिभाषणात् 'भाविनि भूतवदुपचारः' इति परियुक्तत्वाश्च २५ एकस्याप्यणोः सख्येयास ख्येयानन्तप्रचयः सङ्गच्छते । "अनेहसस्तु मुख्यतया उपचारेण प्रदेशप्रचयकल्पना न वरीवर्तते, तेन "दिष्टस्य अकायत्वम् । तथा धर्माधर्माकाशानां निष्क्रियत्वं प्रतिपादितम्, जीवपुद्गलानां तु सक्रियत्वमुक्तम्, तथाविधसूत्रे सति कालस्यापि सक्रियत्वं प्राप्नोति, तन्न घटते 'अजीवकाया धर्माधर्म कालाकाशपुदला:' चेदेवं निर्दिश्यते तदा "आ आकाशादेकद्रव्याणि" [ ५/६ ] इति वचनात् कालस्यैकद्रव्यत्वं प्राप्नोति न च तथा तस्मात्
2
१ द्रव्यमेव कथ्यते आ०, ब०, ज० । २ प्रवर्तते आ०, ब० ज० । ३ प्रचयकलनाव० । - प्रवचन कल्पना- आ०, ब० ज० 1 ४ कस्तदुप आ०, ब०, ज०, ब० । ५ कालस्य । ६ - लाच चेदेवं ज० । ७ यस्मा - आ०, ब०, ज० ।
For Private And Personal Use Only