SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५।३८] २०७ पञ्चमोऽध्यायः गुणपर्ययवद्रव्यम् ॥ ३८ ॥ गुण्यते विशिष्यते पृथक् क्रियते द्रव्यं द्रव्यात् यैस्ते गुणाः। गुणैर्थिना द्रव्याणां सङ्करव्यतिकरः स्यान । कोऽर्थः ? सङ्करस्य व्यामिश्रतायाः व्यतिकरः-प्रघट्टकः स्याद्भवेदित्यर्थः। स्वभावविभावपर्यायरूपतया परि-समन्तात्' परिगच्छन्ति परिप्राप्नुवन्ति ये ते पर्यायाः। "दिहिलिहिश्लिषिश्वसिव्यध्यतीणश्याताश्च ।" [का० सू० ४।२।५८] ५ इत्यनेन णप्रत्ययः। अत्र तु पर्ययशब्दोऽस्ति तत्र पर्ययणं पर्ययः स्वभावविभावपर्यायरूपतया परिप्राप्तिरित्यर्थः। "स्वरवृदृगमिग्रहामल" [ का० सू० ४।५।४१ ] । गुणाश्च पर्ययाश्च गुणपर्ययाः, गुणपर्ययाः विद्यन्ते यस्य तत् गुणपर्ययवत् । द्रवति गच्छति प्राप्नोति, द्रोष्यति गमिष्यति प्राप्स्यति, अदुद्रुवत् अगमत् २प्राप्तवान् (वत् ) ताँस्तान् पर्यायान् इति द्रव्यम् । "स्वराद्यः" [ का सू० ४।२।१० ] इति साधुः । कथञ्चित् भेदापेक्षया नित्य- १० योगापेक्षया वन्तुर्मन्तव्यः । के गुणाः, के पर्यया इति चेत् ? उच्यते-अन्वयिनो गुणाः। व्यतिरेकिणः कादाचित्काः पर्ययाः, तदपेक्षया संसर्गे मन्तुः तैरुभयैरपि युक्तं द्रव्यमुच्यते । तदक्तम् "द्रव्यविधानं हि गुणाः द्रव्यविकारोत्र पर्ययो भणितः । तैरन्यूनं द्रव्यं नित्यं स्यादयुतसिद्धमिति ॥" [ ] १५ तदप्युक्तमास्त "अनाद्यनिधने द्रव्ये स्वपर्यायाः प्रतिक्षणम् ।। उन्मजन्ति निमज्जन्ति जलकल्लोलवजले ॥" [ गुणेन द्रव्यं विशिष्यते यथा धर्मस्य गुणो गतिः, अधर्मस्य स्थितिरित्यादि । अविद्यमाने गुणे द्रव्यसङ्करप्रसङ्गः तथाहि-चेतनादिभिर्गुणः जीवोऽचेतन दिपुद्गलेभ्यो विशिष्यते । २० रूपादिभिर्गुणैः पुद्गलादयश्च जीवाद् विशिष्यन्ते । तस्मात् कारणात् ज्ञानात् रूपादिभ्यश्च गुणेभ्योऽविशेषे सति सङ्करो व्यामिश्रता स्यात् । तेन सामान्यापेक्षया-सर्वजीवापेक्षया जीवस्य ज्ञानादयोऽन्वयिनो गुणाः। जीवगुणाः-जीवमया इत्यर्थः। पुद्गलादीनां तु रूपादयोऽ. न्वयिनो गुणाः। तेषां गुणानां विकाराः विशेषत्वेन भिद्यमानाः पर्याया उच्यन्ते । यथा जीवस्य ज्ञानगुणस्य पर्यायो घटज्ञानं पटज्ञानम् अम्भःस्तम्भकुम्भज्ञानं कोपो मदः "रूपं २५ गन्धः तीब्रो मन्दः इत्यादयो जीवस्य ज्ञानगुणस्य विकाराः पर्याया वेदितव्याः। तेभ्यो १ परिप्राप्नुवन्ति परिगच्छन्ति ये आ०, ब०, ज०। २ प्राप्तं वा ता-ता० । ३ रनूनं आ०, ५०, ज०। ४ तुलना- “उक्तञ्च-गुण इदि दव्वविहाणं दव्वविकारी य पज्जवो भणिदो । तेहि अणं दव्वं अजुदपसिद्ध हवे णिचं ॥" -स० सि० ५।३७ । ५ 'रूपं गन्धस्तीत्रो मन्दः' इत्यादयः पुद्गलद्रव्यस्य रूपगन्धादिगुणानां पर्यायाः ज्ञातव्याः, न तु ज्ञानगुणस्य । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy