________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६ तत्त्वार्थवृत्तौ
[५।३७ अथ किमर्थमधिकगुणविषयो बन्धो निरूपितः समगुणविषयो बन्धो न व्याख्यात इति प्रश्ने सूत्रमिदमुच्यते
बन्धेऽधिको पारिणामिकौ च ॥ ३७॥ भावान्तरोपादानं पारिणामिकत्वमुच्यते । बन्धे बन्धनिमित्ते बन्धकार्ये सति पारिणा५ मिको यस्मात् कारणात् अधिकौ अधिकगुणौ भवतः तस्मात् कारणादधिकगुणविषयो बन्धो निरूपितः। समगुणविषये तु भेदः स्यात् विघटनं भवति तेन समगुणविषयो बन्धो न भवति । यथा आद्रो गुडः अधिकमधुररसः स पारिणामिकः, तदुपरि ये रेण्यादयः पतन्ति ते भावान्तरम् , तेषामुपादानं क्लिन्नो गुडः करोति---अन्येषां रेण्यादीनां स्वगुणमुत्पादयति--
परिणामयतीति परिणामकः, परिणामक एव पारिणामिकः । स पारिणामिको गुडो यथा १० अधिकगुणो भवति तथा अन्योऽपि अधिकगुणोऽल्पीयसः-अल्पगुणस्य परिणामक
इत्युच्यते। अत्रायमर्थः-द्विगुणादिस्निग्धस्य चतुर्गुणादिस्निग्धः पारिणामिकः, द्विगुणादिस्निग्धस्य चतुर्गुणादिरूक्षः पारिणामिकः 'तथा द्विगुणादिरूक्षस्य चतुर्गुणादिरूक्षः पारिणामिकः
तथा द्विगुणादिरूक्षस्य चतुर्गुण दिस्निग्धः पारिणामिकः । ततः पूर्वावस्थापरिहरणपूर्वक ताःधिकमवस्थान्तरमाविर्भवति। कोऽर्थः ? एकत्वमुत्पद्यते इत्यर्थः। तृतीयमेव तार्तीयिक १५ तृतीयादिकण स्वार्थे, हस्वस्य दीर्घता । अन्यथा, यदि अधिकगुणः पारिणामिको न
भवति तदा श्वेतरक्तादितन्तुवत् संयोगमात्रे सत्यपि सर्व पृथग्रूपेण तिष्ठति अपारिणामिकत्वात् । यथा तन्तुवायेन आतन्यमाना बुन्यमानाश्च तन्तवः शुक्लतन्तुसमीपे मिलिता रक्तादयोऽपि तन्तवः समानगुणत्वात् परस्परं न मिलन्ति, तथा अधिकं गुणपारिणामिकत्वं
विना अल्पीयो गुणं विना च परमाणवो न मिलन्ति । एवमुक्तेन प्रकारेण बन्धे सति २० ज्ञानावरणदर्शनावरणवेदनीयादीनां कर्मणां त्रिंशत्सागरोपमकोटीकोट्यादिकः स्थिति
बन्धोऽपि सङ्गच्छते जीवस्य स्निग्धादिगुणेनाधिकत्वात् । अत्र यथा गुडरेणुदृष्टान्तो दत्तस्तथा जलसक्त्वादिष्टान्तोऽपि ज्ञातव्यः । तत् कथम् ? यथा रूक्षाः सक्तवः जलकणास्तु स्निग्धा द्वाभ्यां गुणाभ्यामधिका भवन्ति ते जलकणाः पारिणामिकस्थानीया रूक्षगुणानां सक्तूनां
पिण्डत्वेन पारिणामिका विलोक्यन्ते, तथा परमाणवोऽपि । तथा चोक्तं तत्त्वार्थश्लोक२५ वार्तिके
"बन्धेऽधिको गुणौ यस्मादन्येषां पारिणामिको ।
दृष्टौ सक्तुजलादीनां नान्यथेत्यत्र युक्तवाक् ॥" [त८ श्लो० ५।३७ ] अथ द्रव्यलक्षणमुत्पादव्ययध्रौव्ययुक्तं सदिति पूर्वमेवोक्तमिदानीं तु पुनरपि अपरेण सूत्रेण द्रव्यलक्षणं लक्षयन्त्याचार्या:--
१ वाक्यमेतत्नास्ति ता । २ वाक्यमेतन्नास्ति आ०, ब०, ज० । ३ -कस्थि- आ०,
ब०, ज.।
For Private And Personal Use Only