SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०५ ५।३६] पञ्चमोऽध्यायः द्वयधिकादिगुणानान्तु ॥ ३६॥ तु शब्दः पादपूरणावधारणविशेषणसमुच्चयेषु चतुर्वर्थेषु यद्यपि वर्तते तथाप्यत्र सूत्रे विशेषणार्थे ज्ञातव्यः । किन्तविशेषणम् ? 'न जघन्यगुणानाम' 'गुणसाम्ये सदृशानाम् इति सूत्रद्रये यो बन्धप्रतिषेध उक्तस्तं प्रतिषेधाधिकारं प्रतिषिध्य बन्धं विशेषयति-'बन्धो भवति' इति कथयत्ययं तुशब्दः । द्वाभ्यां गुणाभ्याम अधिकः द्वयधिकः चतुर्गुण इत्यर्थः । द्वयधिक ५ आदिः प्रकारो येषां ते द्वथधिकादयः, द्वयधिकादयः द्वयधिकप्रकारा गुणा येषां परमाणूनां ते द्वयधिकादिगुणाः, तेषां द्वथधिकादिगुणानाम् । द्वयधिकतायां त्रिगुणस्य पञ्चगुणेन सह बन्धो भवतीत्यादि सम्प्रत्ययः स्यात् , तेन कारणेन द्वयधिकादिगुणानां तुल्यजातीयानामतुल्यजातीयानाञ्च बन्धो भवति 'नो इतरेषाम् । के च तुल्यजातयः के च अतुल्यजातयः इति न ज्ञायते ? कथयामि-स्निग्धस्य स्निग्धस्तुल्यजातिः, स्निग्धस्य रूक्षोऽतुल्यजातिः, रूक्षस्य १० रूक्षन्तुल्यजातिः, रूक्षस्य स्निग्धोऽतुल्यजातिरिति । तथाहि-द्विगुणस्निग्धस्य परमाणोरेकगुणस्निग्धेन द्विगुणस्निग्धेन त्रिगुणस्निग्धेन वा बन्धो न भवति, चतुर्गुणस्निग्धेन तु बन्धो भवति । तस्यैव तु द्विगुणस्निग्धस्य पञ्चगुणस्निग्धेन बन्धो न भवति, षट्गुणस्निग्वेन सप्तगुणस्निग्धेन अष्टगुणस्निग्धेन सङ्ख्येयगुणस्निग्धेन असङ्ख्येयगुणस्निग्धेन अनन्तगुणस्निग्धेन वा बन्धो न भवति । त्रिगुणस्निग्धस्य पञ्चगुणस्निग्धेन तु बन्धो भवति शेषैः पूर्वोत्तरः बन्धो न १५ भवति । के पूर्वे के चोत्तरे च इति न ज्ञायते ? कथयामि-बन्धसम्बन्धात् यत् पूर्वमुक्तं तन्न भवति । तत् किम् ? द्विगुणस्निग्धस्य परमाणोः एकगुणस्निग्धेन द्विगुणस्निग्धेन त्रिगुणस्निग्वेन वा बन्धो न भवति इति पूर्वमुक्तम् । बन्धसम्बन्धात् यत् पश्चादुक्तं तदपि न भवति । तत् किम् ? तस्यैव तु द्विगुणस्निग्धस्य पञ्चगुणस्निग्धेन षड्गुणस्निग्धेन सप्तगुणस्निग्वेनाष्टगुणस्निग्धेन सङ्ख्येयगुणस्निग्धेन असंख्येयगुणस्निग्धेन अनन्तगुणस्निग्धेन २० वा बन्धो न भवति इत्युत्तरवचनम्। चतुर्गुणस्निग्धस्य षड्गुणस्निग्धेन भवति बन्धः, शेषैः पूर्वोत्तरः न भवति बन्धः। पूर्वोत्तरशब्दार्थपरिज्ञानार्थं पुनरुक्तमिदं व्याख्यानम् । एवं शेषेष्वपि बन्धो योज्यः । शेषेष्वपीति किम् ? रूक्षबन्धप्रकारेष्वपि बन्धो योज्यः । तथाहिद्विगुणरूक्षस्य एकगुणरूक्षेण द्विगुणरूक्षेण त्रिगुणरूक्षेण न भवति बन्धः । द्विगुणरूक्षस्य चतुर्गुणरूक्षेण तु भवति बन्धः। तस्यैव द्विगुणरूक्षस्य पञ्चगुणरूक्षादिभिर्न भवति बन्धः। २५ त्रिगुणरूक्षादीनां पञ्चगुणादिक्षैर्भवति बन्धः द्विगुणाधिकत्वात्। एवं भिन्नजातीयेध्वपि *बन्धो योजनीयः-रूः सह स्निग्धो योजनीय इत्यर्थः । तथा चोक्तं परमागमे "णिद्धस्स णि ण दुराहिएण लुक्खस्स लुक्खेण दुराहिएण । णिद्धस्स लुक्खेण उदेदि बन्धो जहणवजे विसमे समे वा ॥" [गो० जीव० गा० ६१४ (१)] ३० . १नेतरेषाम् आ०, ब०, ज०। २ संख्येयासंख्येयगुणस्निग्धेनानन्त-व०३-ण त्रिगणभा०, ब०, ज० । ४ -पि यो- आ०, ब०, ज० । ५ उद्धृतेयं प्राचीनगाथा सर्वार्थसिद्धयादिषु । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy