________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४ तत्त्वार्थवृत्तौ
[५.३५ इत्यर्थः। क्वचित् 'राजौ-द्विगुणा रज्जुः समावयवा इत्यर्थः । द्वे रज्जू एकत्र मेलिते बुनिते इत्यर्थः। कचित् द्रव्ये गुणशब्दो वर्तते यथा गुणवान् मालवो देशः, गोशस्यादिप्रचुरद्रव्यवानित्यर्थः। क्वचिदुपकारे गुणशब्दो वर्तते यथा गुणज्ञोऽयं विद्वान् कृतोपकारज्ञ इत्यर्थः । कचित् रूपादिषु गुणशब्दो वर्तते, यथा गुणा रूपरसादयः। कचिद् दोषविपरीतार्थे यथा गुणवान साधुः ज्ञानादिमानित्यर्थः। कचिद् विशेषणे किं गुणोऽयम् । कचिद् भागे यथा द्विगुणेषु चणकेषु च त्रिगुणा गोधूमाः, द्विभागेषु चणकेषु त्रिभागा गोधूमा इत्यर्थः । एवं शौर्यादिसन्ध्यादिसत्त्वादितन्तुर्मेपकारप्रत्यञ्चादिषु गुणशब्दो ज्ञातव्यः । एतेष्वर्थेषु अत्र भागार्थो गुणशब्दो ज्ञातव्यः । तेनायं विग्रहः-जघन्या निकृष्टागुणा भागा येषामण्यादीनां ते जघन्यगुणाः तेषां जघन्यगुणानाम् ,
बन्धो न भवति । तत्कथम् ? एकगुणस्निग्धस्य एकगुणेन स्निग्धेन द्विगुणेन त्रिगुणेन चतुर्गुणेन १० पञ्चगुणेन संख्येयगुणेन असङ्ख्येयगुणेन अनन्तगुणेन वा स्निग्धेन बन्धो न भवति । तथा
एकगुणस्निग्धस्य एकगुणेन रुक्षेण बन्धो न भवति। एवं द्वित्रिचतुःपश्चादिसंख्येयगुणासंख्येयगुणानन्तगुणरूक्षेण वा बन्धो न भवति । एवमेकगुणरूक्षस्य एकगुणस्निग्धेन द्विगुणत्रिगुणचतुःपञ्चादिसङ्ख्येयगुणासङ्ख्येयगुणानन्तगुणेन स्निग्धेन वा अन्धो न भवति । अत्रा
यमर्थः-जयन्यगुणस्निग्धजघन्यगुणरूक्षौ विहायापरेषां स्निग्धानां रूक्षाणां चान्योन्यं बन्धोऽ. १५ स्तीति वेदितव्यम् ।
अथ अस्मिन्नपि सूत्रेऽविशेषप्रसङ्गोऽबन्धस्य, केषां बन्धप्रतिषेधो भवतीति विशेष. ज्ञापनार्थं सूत्रमिदमाहुः- ..
गुणसाम्ये सदृशानाम् ॥ ३५ ॥ गुणानां साम्यं गुणसाम्यं तस्मिन् गुणसाम्ये भागतुल्यत्वे सति, सदृशानां तुल्यजाती२० यानां परमाणनां बन्धो न भवतीति" शेषः । अस्यायमर्थः-द्विगुणस्निग्धानाम् द्विभागस्नि
ग्धानां परमाणूनां द्विगुणरूक्षः-द्विभागरूक्षैः परमाणुभिः सह बन्धो न भवति । त्रिगुणस्निग्धानां त्रिभागस्निग्धानां परमाणूनां त्रिगुणरूक्षैत्रिभागरूक्षः परमाणुभिः सह बन्धो न भवति । तथा द्विगुणस्निग्धानाम्--द्विभागस्निग्धानां द्विगुणस्निग्धानां द्विगुणस्निग्धैः द्विभागस्निग्धेः परमाणुभिः सह बन्धो न भवति । तथा द्विगुणरूक्षाणां द्विभागरूक्षाणां द्विगुणरूक्षः २५ द्विभागरूक्षः सह बन्धो न भवति । ननु गुणसाम्ये भागतुल्यत्वे यदि बन्धो न भवति तर्हि
'सदृशानाम्' इति पदं व्यर्थं साम्यशब्देनैव सहशार्थप्रतिपादनात् ; सत्यम् ; 'सदृशानाम् इति ग्रहणं गुणवैषम्ये बन्धो भवतीति परिज्ञानार्थम् । तेन गुणवैषम्ये बन्धो भवतीति सम्प्रत्ययः सम्यक्प्रतीतिः उत्तरसूत्रे करिष्यते इति ।
अथ विषमभागानां तुल्यजातीयानामतुल्यजातीयानाम् अनियमात् बन्धे प्रसक्ते सति ३० विशिष्टबन्धसम्प्रत्ययनिमित्तं सूत्रमिदं ब्रुवन्त्याचार्याः
१ रज्जो ता०,व०। २ गोधूमसस्या- भ०, ब०, ज०। ३ -कार इ- भा०, ब०, ज०। ४ - रूपकार-व०। सुष्टु उपकारः सूपकारः। ५ -ति विशेषः आ०, व०, ज०, व० । ६ -वाक्यमेतन्नास्ति ता० । ७ पदमेतदधिकं वर्तते ।
For Private And Personal Use Only