SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५।३३-३४] पञ्चमोऽध्यायः २०३ त्वपापत्वे इत्यादयो धर्मा एकस्मिन् पदार्थे 'योजयितव्याः । अथ परमाणूनां परस्परं बन्धनिमित्तसूचनपरं सूत्रमुच्यते स्निग्धरूक्षत्वाद्वन्धः ॥ ३३ ।। स्निह्यति स्म बहिरभ्यन्तरकारणद्वयवशात् स्नेहपर्यायप्रादुर्भावाच्चिकणः सातः स्निग्ध इत्युच्यते। तथा बहिरभ्यन्तरकारणद्रयवशात् रूक्षपरिणामप्रादुर्भावात् रूक्षयति परुषो भवति ५ रूक्षः। रूक्षणं वा रूक्षः। स्निग्धश्च रूक्षश्च स्निग्धरूक्षौ स्निग्धरूक्षयोर्भावः स्निग्धरूक्षत्वं तस्मात् स्निग्धरूक्षत्वात्-चिक्कणलक्षणपर्यायपरुषलक्षणपर्यायहेतुत्वादित्यर्थः । बन्धो भवति-- संश्लेष उत्पद्यते-दृयणुकादिपरिणामः स्कन्ध उत्पद्यते । द्वयो योः परमाण्वोः स्निग्धरूक्षयोः अन्योन्यसंश्लेषलक्षणे बन्धे सति द्वथणुकस्कन्धो भवति । त्रयाणां उसंश्लेषेण "त्र्यणुकस्कन्धो भवति । इत्यादिरीत्या सङ्ख्येयासङ्ख्येयानन्तानन्तप्रदेशस्कन्धो भवतीति वेदितव्यः। तत्र १० स्नेहगुण एकविकल्पो द्विविकल्पस्त्रिविकल्पश्चतुर्विकल्प इत्यादिसङ्ख्येयविकल्पः असङ्ख्येयविकल्पः अनन्तविकल्पः। एवं रूक्षगुणश्च एकद्वित्रिचतुःसङ्ख्येथासङ्ख्येयानन्तविकल्पः । एवं विधगुणसंयुक्ताः परमाणवो वर्तन्ते । यथा उदकस्नेहात् अजाक्षोरमधिकस्नेहम् , अजाक्षीरात अजाघृतमधिकस्नेहम् , एवं गोक्षीरघृते अधिकस्नेहे गोक्षीरान्महिषीक्षोरमधिकस्नेहम् , गोघृतान्महिषीघृतमधिकस्नेहम् , महिषीदीरात् क्रमेलिकाक्षीरमधिक स्नेहम् , महिषीघृतान्मयी- १५. घृतमधिकस्नेहं वर्तते । तथा, यथा पांशुकणिकाभ्यः शर्करोपला अधिकक्षाः, तेभ्योऽपि पाषाणवनादयोऽधिकरूक्षगुणाः, तथा पुद्गलपरमाणवोऽपि अधिकाधिकस्निग्धरूक्षगुणवृत्तयः प्रकर्षाप्रकर्षणानुमीयन्ते। अथ स्निग्धरूक्षत्वगुणहेतुको बन्ध उक्तस्तत्र स्निग्धरूक्षगुणयोर्विशेषो नोक्तः, सामान्यन्वे प्रसक्ते सति अनिष्टगुणप्रतिषेधार्थ सूत्रमिदमुच्यते न जघन्यगुणानाम् ॥ ३४ ॥ 'स्निग्धरूक्षत्वाद् बन्ध': इत्यत्र सामान्येन बन्ध उक्तः । 'न जघन्यगुणानाम' इदं सूत्रन्तु अनिष्टगुणनिवृत्त्यर्थं वर्तते । अस्यैव सूत्रस्य तावद् व्याख्यानं क्रियते तथाहि-जघनमेव जघन्यम्, शरीरावयवेषु किल जपनं निकृष्टोऽवयवः तथाऽन्योऽपि यो निकृष्टः स जघन्य उच्यते । “यदुगवादितः" [ का० सू० २।६।११ ] इत्यनेन सूत्रेण यत् प्रत्यये सति जघन्यशब्दः २५ सिद्धः । "केचित् शाखादित्वात् यं प्रत्ययं मन्यन्ते, यथा शाखायां भवः शाख्यस्तथा जघने भवो जघन्यः। गुणशब्दस्तु अनेकार्थः कचिदप्रधानेऽर्थे यथा “गुणप्रधानार्थमिदं हि वाक्यम्" [बृहत्स्व० श्लो० ४५] अप्रधानार्थमित्यर्थः । यथा अस्मिन् राज्ये वयं गुणभूता अप्रधानभूता १ योजितव्याः भा.,ब०,ज० । एतेषां स्याद्वाददृष्ट्या विशेषपरिज्ञानार्थम् आतमीमांसादयो विलोकनीयाः । २ -दिकारणनामस्क- आ०,१०,ज० । ३ संश्लेषणे वा०, 4. । ४ घणु- आ०, १० ज० । ५ –णप्रत्र- व० । ६ सूत्रमिदमाहुराचार्याः व० । ७ पाणिनीयाः । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy