SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०२ तत्त्वार्थवृत्ती मृत्पिण्डमृत्तिकाद्रव्यवत् 'लोकव्यवहारोऽपि तदधीनो विलुप्यते । तस्मात् कारणात् तद्भावेन नित्यं निश्चीयते । मृत्पिण्डात् घटपर्यायस्तु उपसर्जनीभूतः अप्रधानभूतः, तद्भावस्तु प्रधानभूतः तेन नित्यमिति । तन्नित्यं कथञ्चित् वेदितव्यम्-केनचिन्नयप्रकारेण ज्ञातव्यम्-द्रव्यार्थिकनयेन ज्ञातव्यमित्यर्थः । सर्वथा नित्यत्वे अन्यथाभावस्याभावः स्यात् , ५ तथा सति संसार-संसारविनिवृत्तिहेतुभूतप्रक्रियाविरोधो भवति। अथ, ननु तदेव नित्यं तदेवानित्यमिति विरुद्धमेतत्-चेन्नित्यमङ्गीक्रियते तर्हि उत्पादव्यययोरभावः स्यात् , एवं सत्यनित्यताया विनाशः स्यात् , चेदंनित्यमङ्गीक्रियते तर्हि स्थितेरभावः स्यात्-ध्रौव्याभावो भवेत् , तथा मति नित्यतायाः विघातः स्यात्; युक्तमुक्तं भवता; अस्यैव एकवस्तुनि नित्यानित्ययोविरोधस्योच्छेदनार्थं स्याद्रादिभिरिदं सूत्रमुच्यते अर्पितानपितसिद्धः ॥ ३२ ।।। अर्पणमपितम् , न अर्पणमनस्पितम् , अर्पितं च अनर्पितं च अर्पितानर्पिते । अर्पितानर्पिताभ्यां सिद्धिः अर्पितानर्पितसिद्धिः तस्या अर्पितानर्पितसिद्धेः कारणात् नित्यानित्ययोः कथनं भवति, तत्र नास्ति विरोध इत्यर्थः । अस्यायमर्थः-वस्तु तावदनेकान्तात्मकं वर्तते । तस्य वस्तुनः कार्यवशात् यस्य कस्यचित्स्वभावस्य प्रापितमर्पितं प्राधान्यम् उपनीतं विवक्षित१५ मिति यावत् , नार्पितं न प्रापितं न प्राधान्यं नोपनीतं न विवक्षितमनर्पितमुच्यते प्रयोजना भावात् , सतोऽपि स्वभावस्याविवक्षितत्वात् । उपसर्जनीभूतमप्रधानभूतम् अनर्पितमुच्यते, यथा कश्चित् पुमान् पिता इत्युच्यते । स पिता कस्यचित् पुत्रस्य विवक्षया पिता भवति । स एव पिता पुत्र इत्युच्यते, तत्रापि पितुरपि कश्चित् पिता वर्तते, तद्विवक्षया स एव पिता पुत्र इत्युच्यते । तथा स एव पुत्रत्वेन विवक्षितः पिता भ्रातापि कथ्यते । कस्मात् ? तस्य पुत्र२० त्वेन पितृवेन विवक्षितस्य पुंसोऽन्यः कश्चिद् भ्राता वर्तते, तदपेक्षया स एव पुमान् भ्रातापि भवति । तथा भ्रातृत्वेन पुत्रत्वेन पितृत्वेन विवक्षितः पुमान् भागिनेय इत्युच्यते तस्य मातुलापेक्षया। इत्यादयः सम्बन्धा एकस्यापि पुरुषस्य जनकत्वजन्यत्वादिकारणाद् बह्यो भवन्ति, नास्ति तत्र विरोधः, तथा द्रव्यमपि सामान्यविवक्षया अर्पणया नित्यमुच्यते, विशेषविवक्षया विशेषार्पणया नित्यमपि वस्तु अनित्यमित्युच्यते, अनित्यताकारणसन्दर्शनात २५ मृत इत्यादिवत् , तत्रापि नास्ति विरोधः । तौ च सामान्यविशेषौ केनचिन्नयप्रकारेण कथञ्चिद् भेदा (भेदाभेदा) भ्यां व्यवहारकारणं भवतः । एवम् अर्पितानर्पितसिद्धिवशान्नित्यत्वानित्यत्वे नीलत्वानीलत्वे एकवानेकत्वे भिन्नत्वाभिन्नत्वे अपेक्षितत्वानपेक्षितत्वे दैवत्वपौरुषत्वे पुण्य १ लोकस्य व्य- आ., ब०, ज०, व० । २ -नोऽपि वि- आ०, २०, ज०, ता० । ३ -ति संसारविनि- आ०, २०, ज०, व०। ४ -तक्रि- आ०, २०, ज०, व०। ५ -वेदनित्यमेवा-ध०। ६ पुत्रत्वेन पितापितृत्वेन व० | पुत्रपितृत्वेन आ०, व०, ज०। ७ -न् भवति भा- आ०, २०, ज० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy