________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५/३१ ]
मोऽध्यायः
२०१
न भवति तद् वस्तु नास्ति । ननु भेदे सति युक्तशब्दो दृश्यते यथा 'देवदत्तो दण्डेन युक्तो वर्तते' इत्युक्ते देवदत्तो दण्डाद्भिन्न इति ज्ञायते, तथा च सति उत्पादव्ययत्रौव्याणामभावो भवति' द्रव्यस्य वा अभाव:; युक्तमुक्तं भवता; उत्पादादीनामभेदेऽपि सति कथविभेदेन येन युक्तशब्दोऽत्र दृष्टः, यथा ' स्तम्भः सारयुक्तः' इत्युक्ते न सर्वथा स्तम्भात् सारो भिन्नो वर्तते किन्तु द्वयोरप्यविनाभावोऽस्ति । तेनायमर्थः - उत्पादव्ययप्रौव्यसहितं सदुच्यते । ५ अथवा, 'युजिर् योगे' इति रौधादिको धातुर्न भवति किं तर्हि 'युज् समाधौ ' इति दैवादिकोऽयं धातुः । तथा सति उत्पादव्ययत्रौव्ययुक्तम् उत्पादव्ययध्रौव्य समाहितम् उत्पादव्ययत्रौव्यात्मकम् उत्पादव्ययौमयम् उत्पादव्ययधौव्यस्वभावं यद् वस्तु तत् सदुच्यते । तथा चोक्तम्“स्थितिजनननिरोधलक्षणं चरमचरं च जगत् प्रतिक्षणम् । इति जिन सकलज्ञलाञ्छनं वचनमिदं वदतां वरस्य ते ॥" [बृहत्स्व० श्लो० ११४]
अस्मिन सूत्रे उत्पादव्ययधौव्याणि द्रव्यस्य लक्षणानि उक्तानि । द्रव्यं तु लक्ष्यं प्रोक्तम् । पर्यायार्थिकनयेन उत्पादादीनां परस्परमर्थान्तरभावः तेनैव च नयेन द्रव्यात् उत्पादादीनामर्थान्तरभावः । द्रव्यार्थिकनयेन तु परस्परं व्यतिरेको नास्ति किन्तु तन्मयत्वं वर्तते । अनया रीत्या लक्ष्यलक्षणयोर्भावाभावौ सिद्धाविति ।
१५
अथ "नित्यावस्थितान्यरूपाणि " [ ५४ ] इति यत पूर्वमुक्तं तत्र किं नित्यं तदस्माभिर्न ज्ञायते इति प्रश्ने नित्यलक्षणसूचैनपरं "सूत्रमाहु:
तद्भावाव्ययं नित्यम् ॥ ३१ ॥
भवनं भावः तस्य भावस्तद्भावः, तद्भावेन अव्ययमविनाशं ध्रुवं तद्भावाव्ययं नित्यमुच्यते । तद्भावः कः ? प्रत्यभिज्ञानहेतुता तद्भावः । प्रत्यभिज्ञानहेतुता का ? 'तदेवेदम्' इर्ति २० विकल्पः प्रत्यभिज्ञानम् । तत्प्रत्यभिज्ञानमकस्मान्न भवति निर्हेतुकं न भवति । यो यस्य हेतुः स तद्भावः । येन स्वभावेन वस्तु पूर्वं दृष्टं तेनैव स्वभावेन पुनरपि तदेवेदमिति प्रत्यभिज्ञायते उपचर्यते सङ्कल्प्यते, यथा मृत्पिण्डे दृष्टस्य द्रव्यमृत्तिकालक्षणस्य भावः मृत्पिण्डदृष्टरूपेणावस्थानम् - घटाकार कालेऽपि मृत्पिण्डद्रव्यस्यावस्थानम्, घटं दृष्ट्वा तदेवेदमिति तदेव मृत्पिण्डद्रव्यमिति प्रत्यभिज्ञानेन प्रतीयते । यथा वृद्धं दृष्ट्वा स एवायं शिशुः योऽस्माभिः २५ पूर्वमेव दृष्टः, अनया रीत्या यदत्र्ययं तन्नित्यमुच्यते । यदि अत्यन्तं निरोधो भवतिविनाशः स्यात्, तदा अभिनवप्रादुर्भावमात्रमेव स्यात् मूलद्रव्यविलोपो भवति । घटाङ्गीकारे
य०, ज० ।
१ - ति कस्माद् द्रव्यस्य चामा- वर। -ति द्रव्यस्य चाभा- ता० । २ परमर्था- आ०, ३ -त्या लक्षणयो- भा०, ब०, ज०, व० । ४ नार्थं परं सूत्रमाहुर्भगवन्तः आ०, ५ - सूत्रमिदमाहुः व० | ६ - ति स्मरणमिति विक ता० आ०, ब० ज० । ७ मृतिण्ड - ० ।
ब०, ज० ।
२६
For Private And Personal Use Only