SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १५ www.kobatirth.org २०० तत्वार्थवृत्त [ ५२८-३० अथ स्कन्धानामुत्पत्तिः संघातात् भवति, “भेदसंघातेभ्यः उत्पद्यन्ते" इत्यत्र भेदग्रहणं निरर्थकम् ; नैवंम् ; भेदग्रहणे प्रयोजनमस्ति तदर्थमेव सूत्रमिदमुच्यतेभेदसंघाताभ्यां चाक्षुषः ।। २८ ।। भेदश्च संघातच भेदसंघातौ ताभ्यां भेदसंघाताभ्याम् । चक्षुषा गृह्यते चाक्षुषः चक्षु५ प्रायः स्कन्ध इत्यर्थः । अनन्तानन्ताणुमेलापकजातोऽपि कश्चित् स्कन्धः चाक्षुषः चक्षुर्ब्राह्यो भवति कश्चित् स्कन्धोऽचाचुषो भवति । तयोर्मध्ये योऽचाक्षुषः स चाक्षुषः कथं भवति ? सूक्ष्मपरिणामस्कन्धस्य भेदे सति सौक्ष्म्यस्यापरिहारात् एकत्र अचानुषत्वमेव, द्वितीयस्तु अचाक्षुषः स्कन्धः अन्यसङ्घातेन चाक्षुषेण मिलितः सन् सूक्ष्मपरिणामपरित्यागे सति स्थूलत्वोत्पत्तौ सत्यामचाचुषोऽपि चाक्षुषो भवति । तेन 'भेदसङ्घातेभ्यः उत्पद्यन्ते' इत्यत्र १० भेदग्रहणमनर्थकं न भवति । अत्रायं भावः - केवलात् भेदात् सूक्ष्मस्य स्कन्धस्य चाक्षुषत्वं न भवति, किन्तु चाक्षुषेण सह मिलितस्य सूक्ष्मस्य चाक्षुषत्वं भवति । I अथ धर्माधर्माकाशपुद्गल कालजीवद्रव्याणां निजनिजलक्षणानि विशेषभूतानि विद्वद्विशेषणमास्वामिना प्रोक्तानि षण्णामपि सामान्यलक्षणमद्यापि नोक्तं वर्तते, तत्प्रतिपत्त्यर्थं सूत्रममिदं सूचयते Acharya Shri Kailassagarsuri Gyanmandir सद् द्रव्यलक्षणम् ॥ २९ ॥ द्रव्याणां लक्षणं द्रव्यलक्षणं द्रव्यस्य वा लक्षणं द्रव्यलक्षणम् । सद् भवति । कोऽर्थः ? यत् सत् विद्यमानं तत् द्रव्यं भवति, यत् सत् नास्ति तत् द्रव्यं न भवति । तत्सत्त्वं सर्वेषामेव to द्रव्याणां वर्तत एव । अथ सदेव तावत् पूर्वं न ज्ञायते यत् द्रव्याणां लक्षणभूतं सामान्यतया वर्तते, तत्परि२० ज्ञानार्थं सूत्रं वक्तुमर्हन्ति भवन्त इति प्रश्ने सूत्रमिदमाहुः -- उत्पादव्ययप्रौव्ययुक्तं सत् ॥ ३० ॥ चेतनद्रव्यस्य अचेतनद्रव्यस्य वा निजां जातिममुखतः कारणवशात् भावान्तरप्राप्तिः उत्पादनमुत्पादः, यथा मृत्पिण्डविघटने घटपर्याय उत्पद्यते । पूर्वभावस्य व्ययनं विघटनं विगमनं विनशनं व्यय उच्यते, यथा घटपर्यायोत्पत्तौ सत्यां मृत्पिण्डाकारस्य व्ययो भवति । २५ अनादिपारिणामिकस्त्रभावेन निश्चयनयेन वस्तु न व्येति न चोदेति किन्तु ध्रुवति स्थिरीसम्पद्यते यः स ध्रुवः तस्य भावः कर्म वा धौव्यमुच्यते, यथा मृत्पिण्डस्य व्यये घटपर्यायोत्पत्ताaft मृत्तिका मृत्तिकान्वयं न मुवति, एवं पर्यायस्योत्पादे व्यये च जातेऽपि सति वस्तु ध्रुवत्वं न मुञ्चति । उत्पादश्च व्ययश्च धौव्यं च उत्पादव्ययधौव्याणि तैर्युक्तमुत्पादव्ययधौव्ययुक्तम् । यद् वस्तु उत्पादव्ययश्रव्ययुक्तं भवति तत् वस्तु सद् भण्यते । यद् वस्तु उत्पादव्ययत्रौव्ययुक्तं १ नैव भे- ता० । २ - मिदमुच्य- आ०, ब० ज० । ३ - वक्तु- भा०, ब० ज० । ४ नं विग- ता०, ब० । ५ -व्यमित्युव्य- आ०, ब०, ज० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy