________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५/२६-२७ ]
पचमोऽध्यायः
१९९
निश्चयव्यवहार नयद्वयक्रमादित्यर्थः । निश्चयनयादणव एव पुद्गलाः, व्यवहारनयात् स्कन्धा अपि पुद्गला भवन्तीत्यर्थः ।
अथ पुद्गल परिणामः अणुरूपः स्कन्धरूपश्च वर्तते । असावनादिर्वर्तते आहोस्वित् सादिरस्ति ? उत्पत्तिलक्षणत्वात् सादिरङ्गीक्रियते, तर्हि किन्निमित्तमाश्रित्योत्पद्यन्तेऽणवश्च ( वः ) किन्निमित्तमाश्रित्योत्पद्यन्ते स्कन्धाश्चेति प्रश्ने तत्र तावत् स्कन्धानामुत्पत्तिनिमित्त- ५ संसूचनार्थ सूत्रमिदमाहु:--
भेदसङ्घातेभ्य उत्पद्यन्ते ॥ २६ ॥
१
भेदश्व सङ्घातच भेदसंघातश्च भेदसंघातास्तेभ्यः भेदसंघातेभ्यः, रूपे रूपं प्रविष्टं "सरूपाणामेकशेषः " [पा० सू० ११२ ६४ ] इति वचनात् भेदसङ्घातशब्दलोपः । उत्पद्यन्ते जायन्ते स्कन्धा इत्यर्थः । संघातानां द्वितयनिमित्तवशात् विदारणं भेदः । भिन्नानाम् एकत्र १० मेलापकः संघातः । भेदात् संघातात् तदुभयाच्च स्कन्धा उत्पद्यन्ते इत्यर्थः । अस्यायमर्थ:द्वयोरोः मेलापकादेकत्रीभवनात् द्विप्रदेशः स्कन्धः सखायते । द्विप्रदेशस्य स्कन्धस्य एकस्य चाणोर्मेलापकास्त्रिप्रदेशः स्कन्ध उत्पद्यते । त्रयाणां वा भिन्नानामणूनां मेलापकास्त्रिप्रदेशः स्कन्धो जायते । द्विप्रदेशस्य स्कन्धस्य अपरस्य च द्विप्रदेशस्य स्कन्धस्य मेलापकाच्चतु:प्रदेशः स्कन्धः सञ्जायते । अथवा त्रिप्रदेशस्य स्कन्धस्य एकस्य चाणोर्मेलापकाच्चतुः प्रदेशः १५ स्कन्धः सञ्जायते । अथवा चतुर्णाम् अणूनां भिन्नानां मेलापकाच्चतुः प्रदेशः स्कन्धः सञ्जायते । त्रिप्रदेशस्य स्कन्धस्य द्विप्रदेशस्य च स्कन्धस्य एकत्रीभवनात् पञ्चप्रदेशः स्कन्ध उत्पद्यते । चतुःप्रदेशस्य स्कन्धस्य एकस्य चाणोर्मेलापकात् पञ्चप्रदेशः स्कन्धः सखायते । पञ्चानामनां वा भिन्नानां मेलापकात् पञ्चप्रदेशः स्कन्धः सञ्जायते । इत्यादिसंख्येयानामणूनाम संख्येयानामणूनाम् अनन्तानाम् अणूनां च मेलापकात् संख्येयप्रदेश: असंख्येयप्रदेश: २० अनन्तप्रदेशः अनन्तानन्तप्रदेशश्च स्कन्ध उत्पद्यते । एतेषामेव स्कन्धानां पूर्वरीत्या भेदात् नाना स्कन्धा उत्पद्यन्ते द्वणुकः स्कन्धो यावत् । यथा भेदान् संघाताच्च स्कन्धोत्पत्तिर्निगदिता तथा भेदसंघाताभ्याम्, एकसमयोत्पन्नाभ्यां द्विप्रदेशादयः स्कन्धाः सम्प्रजायन्ते अन्यस्माद् भेदेन अन्यस्य मेलापकेन तदुभयप्रदेशः स्कन्ध उत्पद्यते इत्यर्थः ।
अथ यदि स्कन्धा एवमुत्पद्यन्ते तर्हि अणुः कथमुत्पद्यते इति प्रश्ने सूत्रमिदमाहु:-- भेदादणुः ।। २७ ।।
अणुरुत्पद्यते । कस्माद् ? भेदात् । न संघातात् न च भेदसंघाताभ्यामनुरुत्पद्यते किन्तु भेदादेरुत्पद्यते इति नियमार्थमिदं सूत्रम् “सिद्धे सत्यारम्भो नियमाय " [ ] इति वचनात् ।
१ -स्य मे - आ०, ब० ज० । २ संजाय - आ०, ब० ज०, ब० । ३ -मुत्य- आ०, ब०, ज० । ४ - देवोत्प- आ०, ब०, ज० । ५ "सिद्ध सत्यारम्भो नियमार्थः " - न्यायसं० पृ० २५ । “सिद्धे विधिरारभ्यमाणो ज्ञापकार्थो भवति" - पा० म० भा० १११३ ।
For Private And Personal Use Only
२५