________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९८८
तत्त्वार्थवृत्ती
[५।२५ उष्णप्रकाशलक्षणः सूर्य्यबहि:प्रभृतिनिमित्त आतप उच्यते ॥९॥ ज्योतिरङ्गणरत्नविधुजातः प्रकाश उद्योत उच्यते ॥ १० ॥
एते शब्दादयो दश भेदा पुद्गलद्रव्यविकारा वेदितव्याः । चकारात् अभिघातचोदनादयः पुद्गलपरिणामाः परमागमसिद्धाः समुचिता ज्ञातव्याः । अथेदानीं पुद्गलानां प्रकारः निरूप्यते
_ अणवः स्कन्धाश्च ॥ २५ ॥ प्रदेशमात्रभाविना स्पर्शादिपर्यायाणामुत्पत्तिसामर्थ्येन परमागमे अण्यन्ते शब्द्यन्ते कार्यलिङ्ग विलोक्य सद्पतया प्रतिपाद्यन्ते इति अणवः "सर्वधातुभ्यः "[ ] तथा चोक्तम्
"अणवः कार्यलिङ्गाः स्युः द्विस्पर्शाः परिमण्डलाः ।
एकवर्णरसा नित्याः स्युरनित्याश्च पर्ययैः ॥” [ ननु येऽतिसूक्ष्मा अणवो वर्तन्ते तेषां क आदिः को मध्यः कश्चान्तः ? सत्यम् ; तेषां स्व एव आदिः स्व एव मध्यः स्व एवान्तश्च "आधन्तवदेकस्मिन्" [पा० सू० १।१।२१ ] इति परिभाषणात् । तथा चोक्तम्
"अत्तादि अत्तमझं अत्तंतं णेव इंदिए गिज्झं। जं दव्वं अविभागी तं परमाणु वियाणाहि ॥" [नियमसा० गा० २६]
स्थूलत्वेन ग्रहणनिक्षेपणादिव्यापारं "स्कन्धन्ति गच्छन्ति ये ते स्कन्धा इत्युच्यन्ते । क्वचित् वर्तमाना क्रिया उपलक्षणवशात् रूढिं प्राप्नोतीति कारणात् ग्रहणनिक्षेपणादि
व्यापाराणामनुचितेष्वपि द्वथणुकादिषु स्कन्धेषु स्कन्धसंज्ञा वर्तते । ननु पुद्गलानामनन्ता २० भेदा वर्तन्ते अणुस्कन्धभेदतया द्विप्रकारत्वं कथम् ? सत्यम् ; अणव इत्युक्ते अणुजातितया
सर्वेऽपि अणवो गृहीताः, स्कन्धजातितया सर्वेऽपि स्कन्धा गृहीताः । ननु जातावेकवचनं भवति बहुवचनं कथम् ? सत्यम् ; अणूनां स्कन्धानां च अनेकभेदसंकथनार्थ बहुवचनं वर्तते । तर्हि 'अणुस्कन्धाश्च' इति एकमेव पदं किमिति न कृतम् ? अणवः स्कन्धाश्चेति
भेदाभिधानं किमर्थम् ? सत्यम् ; भेदाभिधानं पूर्वोक्तसूत्रद्वयभेदसम्बन्धनार्थम्। तेनायमर्थः२५ अणवः स्पर्शरसगन्धवर्णवन्तः, स्कन्धास्तु शब्दबन्धसौक्ष्म्यस्थौल्यसंस्थानभेदतमश्छायातपो
द्योतवन्तश्च तथा स्पर्शरसगन्धवर्णवन्तश्च स्कन्धा भवन्ति । चकारः परस्परं समुच्चये वर्तते। तेनायमर्थः-न केवलम् अणव एव पुद्गलाः किन्तु स्कन्धाश्च पुद्गला भवन्ति
१ समुदिता आ०, ब०, ज० । २ साध्यन्ते आ०, ब०, ज० । ३ प्रतिपद्यन्ते आ०, ब०, जा। ४ -घां मध्ये क आ०, ब०, ज०। ५ स्कन्दन्ति व०। ६ भेदाः प्रव- आ०, ब०, ज०। ७ परसरसमु-व.।
For Private And Personal Use Only