SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५।२४] पञ्चमोऽध्यायः अभाषात्मकोपि द्विप्रकारः-प्रायोगिकवैश्रसिकभेदात् । पुरुषप्रयोगे भवः प्रायोगिकः, विश्रसा स्वभावेन सञ्जातः वैश्रसिकः । विश्रसा इत्ययं शब्दः आकारान्तोऽव्ययं स्वभावार्थवाची । तत्र प्रायोगिकश्चतुष्प्रकारः-ततविततधनसुषिरभेदात् । तत्र ततः शब्दः चर्मतननेन सञ्जातः । योऽसौ पुष्करः पटहः भेरी दुन्दुभिः दर्दुरो जङ्घावादिनविशेषः ‘र बाब' इति देश्याम् , इत्यादिकः तत इति कथ्यते । विततः शब्दः तन्त्रीविहितवीणाद्युद्भवः । सुघोषैः ५ किन्नरैश्च उल्लपित इत्यादिको वितत उच्यते । धनः शब्दः तालकंसताल' नादिन्याधभिघातजातः । सुषिरः शब्दः कम्ब्रुवेणुभंभाकाहलादिप्रभवः सुषिर उच्यते ॥१॥ अथ बन्धसम्बन्धः। बन्धो द्विप्रकारः–प्रायोगिकवैश्नसिकभेदात् । तत्र प्रायोगिकः पुरुषप्रयोगोद्भवः। अजीवविषयजीवाजीवविषयभेदात् सोऽपि द्विप्रकारः। तत्र अजीवविषयो बन्धः दारुलाक्षादिलक्षणः। जीवाजीवविषयः कर्मनोकर्मबन्धः। वैश्रसिको बन्धः १० स्वाभाविको बन्धः स्निग्धरूक्षत्वगुणप्रत्ययः शक्रचापमेघोल्कातडिदादिविषयः ॥२॥ अथ सौक्ष्म्यमुच्यते । तद् द्विप्रकारम्-अन्त्यापेक्षिकभेदात् । तत्र परमाणूनां सौक्ष्म्यम् अन्त्यमुध्यते । अपेक्षायां भवमापेक्षिकम् । कपित्थविल्वाद्यपेक्षया आमलकादीनि सूक्ष्माणि, आमलकाद्यपेक्षया बदरादीनि सूक्ष्माणि, बदराद्यपेक्षया ककोलादीनि सूक्ष्माणि एवं मरिचसर्षपासुरीप्रभृतीनि सूक्ष्माणि ज्ञातव्यानि ॥३॥ अथ स्थौल्यमुच्यते । तदपि द्विप्रकारम्-अन्त्यापेक्षिकभेदात् । तत्र जगद्व्यापी महास्कन्धः अन्त्यस्थूलः। राजिकासर्षपमरिचककोलबदरामलकबिल्वकपित्थादीनिअपेक्षास्थूलानि ॥४॥ अथ संस्थानमुच्यते । तदपि द्विप्रकारम्-इत्थंलक्षणानित्थंलक्षणभेदात् । तत्रेत्थंलक्षणं संस्थानं वर्तुलत्रिकोणचतुःकोणदीर्घपरिमण्डलादिकम् । इदं वस्तु इत्थम्भूतं वर्तते इति वक्तुमशक्यत्वात् अनित्थंलक्षणं संस्थानमुच्यते । तत्तु मेघपटलादिषु अनेकविधं वेदितव्यम् ॥५॥ २० ___अथ भेदस्वरूपं निरूप्यते । भेदः षट्प्रकारः-उत्करः चूर्णः खण्डः चूर्णिका प्रतरोऽणुचटनं चेति । दार्वादीनां क्रकचकुठारादिभिः उत्करणं भेदनम् उत्करः। यवगोधमचणकादीनां सक्तुकणिकादिकरणं चूर्णमुच्यते। घटकरकादीनां भित्तशर्करादिकरणं खण्डः प्रतिपाद्यते । अतिसूक्ष्मातिस्थूलवर्जितं मुद्गमाषराजमाषहरिमन्थकादीनां दलनं चूर्णिका कथ्यते । मेघपटलादीनां विघटनं प्रतर उच्यते। अतितप्तलोहपिण्डादिषु. द्रुघणादिभिः कुटयमानेषु अग्निकणनि- २५ र्गमनम् अणुचटनमुच्यते ॥ ६॥ अथ तमो निरूप्यते । प्रकाशविपरीतं चक्षुःप्रतिबन्धनिमित्तं तमोऽपि पुद्गलविकारः ॥७॥ प्रकाशावरणकारणभूता छाया द्विप्रकारा। एका वर्णादिविकृतिपरिणता। कोऽर्थः ? गौरादिवर्ण परित्यज्य श्यामादिभावं गता। द्वितीया छाया प्रतिच्छन्दमात्रात्मिका ॥८॥ १ -नादिनाद्य-आ०, द०, ज०, व० । २ -प्रयोगाद् भवो आ०, द०, ज० । ३ -सुपारीव० । असुरी कृष्णिका। ४ अपेक्ष्यस्थू- आ०, द०, ज०। ५ चणको हरिमन्थकः । ६ प्रतिबिम्बरूपा । अथवा प्राकृतगाथायाः संस्कृतछन्दरूपेण छाया वा । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy