________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[५।२४
१९६
तत्त्वार्थवृत्ती व्यञ्जको लवणरस इति कारणात् पञ्चस्वपि रसेष्वन्तर्भावः । येषु च जलादिषु एको द्वौ त्रयो वा गन्धादयः प्रकटो न ज्ञायन्ते तत्र स्पर्शसद्भावात् अप्रकटाः सन्तीति निश्चीयते । ननु "रूपिणः पुद्गलाः" [५५] इत्यत्र सूत्रे पुद्गलानां रूपगुंणः प्रोक्तः, रूपगुणाविनाभावि
नश्च रसादयो गुणाः तस्मिन्नेव सूत्रे संगृहीता इति कारणात् पुद्गलानां रूपादिमत्त्वं तेनैव ५ सूत्रेण सिद्धं किमर्थमिदं सूत्रमनर्थकम् ? इत्याह-सत्यम्; "नित्यावस्थितान्यरूपाणि"
[५४ ] इत्यस्मिन् सूत्रे धर्माधर्माकाशादीनां नित्यत्वादिनिरूपणे पुद्गलानामपि अरूपत्वप्राप्तौ सत्यां तस्याः प्रतिषेधार्थं "रूपिणः पुद्गलाः" इति सूत्रं तत्रोक्तम् "स्पर्शरसगन्धवर्णवन्ताः पुद्गलाः” इति तु सूत्रं पुद्गलानां परिपूर्णस्वरूपविशेषपरिज्ञानार्थमुक्तं तेनानर्थक न भवति । __अथ पुद्गलानां सम्पूर्णविशेषपरिज्ञाने सञ्जातेऽपि पुद्गलानां विकारपरिज्ञानमवशिष्टं वर्तते, तदर्थ सूत्रमिदमुच्यते-- शब्दवन्धसौम्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवन्तश्च ॥ २४ ॥
सूक्ष्मस्य भावः सौक्ष्म्यम् , स्थूलस्य भावः स्थौल्यम् । शब्दश्च बन्धश्च सौक्ष्म्यं च स्थौल्यं च संस्थानं च भेदश्च तमश्च छाया च आतपश्च उद्योतश्च शब्दबन्धसौक्ष्म्यस्थौल्यसंस्थान१५ भेदतमश्छायातपोद्योताः, ते विद्यन्ते येषां पुद्गलानां ते शब्दबन्धसौक्ष्म्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवन्तः। एतैर्दशभिः पुद्गलविकारैः सहिता पुद्गला भवन्ति ।
तत्र तावच्छब्दस्वरूपं निरूप्यते । शब्दो द्विप्रकार:-भाषात्मकोऽभाषात्मकश्चेति । तत्र भाषात्मकोऽपि द्विप्रकार:-साक्षराऽनक्षरभेदात् । तत्र साक्षरः शब्दः शास्त्रप्रकाशकः
संस्कृताऽसंस्कृतात्मकः आर्यम्लेच्छव्यवहारप्रत्ययः। अनक्षरः शब्दो द्वीन्द्रियत्रीन्द्रियचतुरि२० न्द्रियपञ्चेन्द्रियाणां प्राणिनां ज्ञानातिशयस्वभावकथनप्रत्ययः । झा नातिशयस्तु एकेन्द्रियापेक्षया
ज्ञातव्यः, एकेन्द्रियाणां तु ज्ञानमात्रं वर्तते अतिशयज्ञानं नास्ति अतिशयज्ञानहेत्वभावात् । अतिशयज्ञानवता सर्वज्ञेन एकेन्द्रियाणां स्वरूपं निरूप्यते । स भगवान् परमातिशयज्ञानवान् , अन्यः पुमान रथ्यापुरुषसदृशः नाममात्रेण सर्वज्ञः हरिहरादिकः।
___ अत्र केचित् सर्वज्ञस्य अनक्षरात्मकं शब्दं प्रतिपादयन्ति', "नष्टो वर्णात्मको २५ वनिः" [
] इति वचनात् ; तन्न सङ्गच्छते ; अनक्षरात्मकेन शब्देन अर्थप्रतीतेरभावात् । तथा चोक्तम्
"देवकृतो ध्वनिरित्यसदेतत् देवगुणस्य तथा वितिः स्यात् । साक्षर एव च वर्णसमूहान्नैव विनार्थगतिर्जगति स्यात् ॥" [ ] भाषात्मकः सर्वोऽपि साक्षरानक्षररूपः प्रायोगिक इत्युच्यते पुरुषप्रयोगहेतुत्वात् । .
१ प्रकटतया न ज्ञा- ज० । प्रकटज्ञानं ज्ञा- आ०, ब० । २-ण प्रो-ता०, ५० । ३ --न्ति नष्टवर्णात्मकं शब्दं प्रतिपादयन्ति आ०, ब०, ज० ।
For Private And Personal Use Only