________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५।२३] पञ्चमोऽध्यायः
१९५ वर्तते । ते द्वे अपि परत्वाऽपरत्वे उक्तलक्षणे कालकृते ज्ञातव्ये । कालोपकार इत्यर्थः । परिणामादयश्चत्वारः सूर्यादिक्रियाकारणसमयावलिकादिव्यवहारकालकृता ज्ञातव्याः। समयस्तु अणोरण्वन्तरविघटनलक्षणप्रमाणो मुख्यकालकृतो वेदितव्यः। एते वर्तनादयः पश्चोपकाराः कालस्यास्तित्वं ज्ञापयन्ति । ननु वर्तनाग्रहणं यत् कृतं तेनैव पूर्यते परिणामादयस्तु चत्वारः वर्तनाया' भेदा एव किमिति परिणामादीनां ग्रहणं पृथग विधीयते ? तद्- ५ नर्थकम् । सत्यम् ; परिणामादीनां प्रपञ्चः कालद्वयसूचनार्थः। किन्तत् कालद्वयम् ? निश्चयकालो व्यवहारकालश्च । तत्र निश्चयकालो वर्तनालक्षणः परिणामादिचतुर्लक्षणो व्यवहारकालः । उक्तञ्च--
"दव्वपरियट्टरूवो जो सो कालो हवेइ ववहारो।
परिणामादी लक्खो वट्टणलक्खो दु परमहो।" [द्रव्यसं० गा० २१] १० तत्र व्यवहारकालो भूतभविष्यत्वर्तमानलक्षणः गौणः निश्चयकाले, कालाभिधानं मुख्यम् । व्यवहारकाले भूतभविष्यत्वर्तमानव्यपदेशो मुख्यः कालव्यपदेशस्तु गौणः । कस्मान्मुख्यः कस्माद् गौणः ? क्रियायुक्तसूर्यादिद्रव्यापेक्षत्वात् मुख्यः, कालकृतत्वात् च गौण इति।
'अथ धर्मस्याधर्मस्याकाशस्य पुद्गलस्य जीवस्य कालस्य चोपकाराः प्रोदिताः । १५ "उपयोगो लक्षणम्" [ त० सू० २।८ ] इत्यादिभिर्लक्षणञ्चोक्तम् , पुद्गलानां तु सामान्य'. लक्षणं प्रोक्तं विशेषलक्षणन्तु नोक्तं तदिदानी पुद्गलानां विशेषलक्षणमुच्यताम्' इत्युपन्याससम्भवे सूत्रमिदमाहुः
स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ॥ २३ ॥ स्पृश्यते स्पर्शनं वा स्पर्शः । “अकर्तरि च कारके संज्ञायाम्" [ का० सू० ४।५।४ ] २० घम् । पक्षे "भावे" [ का० सू० ४।५।३ ] घन्। रस्यते रसनं वा रसः । गन्ध्यते गन्धनं या गन्धः । वर्ण्यते वर्णनं वा वर्णः। स्पर्शश्च रसश्च गन्धश्च वर्णश्च स्पर्शरसगन्धवर्णाः, स्पर्शरसगन्धवर्णा विद्यन्ते येषां पुद्गलानां ते स्पर्शरसगन्धवर्णवन्तः । पूर्यन्ते गलन्ति च पुद्गलाः, धातोस्तदर्थातिशयेन योगः मयूरभ्रमरादिवत् । “मन्तुरत्र नित्ययोगे यथा क्षीरिणो वृक्षाः वटादयः। पुद्गलाः स्पर्शादिगुणवन्तो भवन्ति । तत्र स्पर्शोऽष्टप्रकार:-मृदुकर्कशगुरु- २५ लघुशीतोष्णस्निग्धरूक्षभेदात् । रसः पञ्चप्रकारः-तिक्ताम्लकेंटुमधुरकषायभेदात् । गन्धो द्विप्रकारः-सुरभिदुरभिभेदात्। वर्णः पञ्चप्रकार:-कृष्णनीलपीतशुक्ललोहितभेदात् । एते पुद्गलानां स्पर्शादयो मूलगुणभेदाः । ते च प्रत्येकं द्विव्यादिसंयोगगुणभेदेन संख्येयासंख्येयानन्तभेदाश्च भवन्ति । लवणरसस्य मधुररसे अन्तर्भावो वेदितव्यः । अथवा सर्वेषां रसानां
१ -या भवा एव आ०, ब०, ज०। -या भेद एव ता० । २ -मान्य ल- भा०, ५०, ज०। ३ -मरादिषुवत् आ०, ५०, ज० । ४ वंतुरत्र ता०। ५ -कटुकम- भा०, ब०, ज० । ६ संख्येयानन्तशो भे- आ०, ब०, ज० ।
For Private And Personal Use Only