________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९४
तत्त्वार्थवृत्त
[ ५१२२
निश्चीयते सङ्ख्यायते समयादिभिः पर्यायैः " मुख्यः कालो निर्णीयते यः सः कालः । " अकर्तरि च कारके संज्ञायाम्" [ का० सू० ४।५।४] घब् ।
वर्तन्ते स्वयमेव स्वपर्यायैः बाह्योपग्रहं विना पदार्थाः तान् वर्तमानान् पदार्थान् अन्यान् प्रयुङ्क्ते या सा वर्तना । वृतेरिनन्तात् कर्मणि भावे वा युट् स्त्रीलिङ्गे वर्तना इति ५ भवति । वर्तते वर्तना इति कर्मणि विग्रहः । वर्तनं वर्तना इति भावे विग्रहः । अत्र लोकप्रसिद्धो दृष्टान्तः कथ्यते - यथा तण्डुलानां विक्लेदनं पचनं पाक उच्यते ते तु तण्डुलाः पच्यमानाः शनैः शनैः ओदनत्वेन परिणमन्ति तण्डुलानां स्थूलत्वदर्शनात् समयं समयं प्रति सूक्ष्मः पाको भवतीति निश्चीयते । यदि प्रतिक्षणं तण्डुलानां सूक्ष्मपाको न भवेत् तदा अनु अक्षतोचितस्थूलपा
स्याभावो भवेत् । एवं सर्वेषां द्रव्याणां स्थूलपर्यायविलोकनात् स्वयमेव वर्तनस्वभावत्वेन बाह्यं १० निश्चयकालं परमाणुरूपमपेक्ष्य प्रतिक्षणमुत्तरोत्तरसूक्ष्मपर्यायेषु वर्तनं परिणमनं यद् भवति सा वर्तना निर्णीयते । चेत् द्रव्याणां प्रतिसमयं परिणामो नैवं भवेत् तर्हि द्रव्याणां स्थूलपर्यायोऽपि न स्यात् तेन सा वर्तना अणुरूपस्य मुख्यकालस्य निमित्तभूतेति कारणात् वर्तनया कृत्वा मुख्यकालोऽणुरूपोऽस्तीति निश्चीयते । वर्तनालक्षणो निश्चयकालस्योपकार इत्यायातम् । ननु यदि निश्चयकालो द्रव्यपर्यायाणां वर्तयिता वर्तते तर्हि स कालः क्रियावान् सञ्जातः निष्क्रियः १५ कथमुक्तः ? सत्यम् ; निमित्तमात्रेऽपि वस्तुनि हेतुकर्तृत्वं दृश्यते यथा भिक्षा वासयते कारीषोऽनिरध्यापयति इति हेतुकर्तृताव्यपदेशो भिक्षाग्न्योर्हश्यते, तथा कालस्यापि हेतुकर्तृत्वमस्ति निष्क्रियत्वं च न विनश्यति कालस्य । पर्यायोत्पादिका वर्तना तावत् विज्ञाता ।
इदानीं परिणामः कालस्योपकारः कथ्यते — द्रव्यस्य स्वभावान्तरनिवृत्तिः स्वभावान्तरोत्पत्तिश्व परिस्पन्दात्मकः पर्यायः परिणाम उच्यते । स परिणामः जीवस्य क्रोधमानमायालोभा२० दिकः । पुंद्गलस्य परिणामः वर्णगन्धरसस्पर्शादिकः । धर्मस्याधर्मस्य आकाशस्य च अगुरुलघुगुणवृद्धिहानिविहितः परिणामो वेदितव्यः । विज्ञातस्तावत् पर्यायरूपः परिणामः कालस्योपकारः । इदानीं क्रियालक्षणः कालोपकारः कथ्यते - परिस्पन्दात्मकः चलनरूपः पर्यायः क्रिया कथ्यते । सा क्रियाद्विप्रकारा - प्रायोगिकी, वैश्रसिकी च । तत्र प्रायोगिकी क्रिया हलमुशलशकटादीनां भवति । वैश्रसिकी स्वाभाविकी मेघविद्युदादीनां भवति । सा द्विधापि २५ क्रिया कालद्रव्योपकारः कथ्यते । विज्ञाता तावत् क्रिया ।
इदानीं परत्वापरत्वयोरवसरः । परत्वापरत्वे क्षेत्रकृते [ कालकृते ] च, कालोपकारप्रकरणात् सूत्रे कालकृते गृह्येते । तथाहि---अतिसमीपदेशवर्तिनि अतिवृद्धे व्रतादिगुणहीने चाण्डाले परत्वव्यवहारो वर्तते, दूरदेशवर्तिनि गर्भरूपे व्रतादिगुणसहिते च अपरत्वव्यवहारो
१ मुख्यका- आ०, ब०, ज० । २ वर्तते तार, व० । ३ व पर्या- आ०, ब०, ज० । ४ अन्या प्रयुङ्क्ते ता० भा०, ब० ज० । ५ -स्यालाभो भ- आ०, ब०, ज० । ६ न भ- ता०, व० । ७ पुद्गलस्य परिणाम उच्यते पुद्गलस्य आ०, ब०, ज० । पुद्गलस्य परिणाम उच्यते वर्ण- व० । ८ साद्वि- आ०, ब०, ज० । ९ -त्वे द्वे लक्षणकृते च आ० ज०, ब० । -त्वे क्षणकृते च व० ।
For Private And Personal Use Only