SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९३ ५।२१-२२] पञ्चमोऽध्यायः परस्परोपग्रहो जीवानाम् ॥ २१ ॥ परस्परः अन्योन्यसम्बन्धी, उपग्रहः कार्यम् , परस्परश्वासावुपमहः परस्परोपग्रहः । जीवानां प्राणिनाम् अन्योन्यस्य कार्यकरणम् उपकारो भवति । यथा 'वापः पुत्रस्य पोषणादिक करोति, पुत्रस्तु वप्तुरनुकूलतया देवार्चनादिकं कारयन् श्रीखण्डघर्षणादिकं करोति । तथा, यथा आचार्यः इहलोकपरलोकसौख्यदायकमुपदेशं दर्शयति तदुपदेशकृतक्रियानुष्ठानं कारयति, ५ शिष्यस्तु गुर्वानुकूल्यवृत्त्या तत्पादमर्दननमस्कारविधानगुणस्तवनाभीष्टवस्तुसमर्पणादिकमुपकारं करोति । तथा, यथा राजा किङ्करेभ्यो धनादिकं ददाति, भृत्यास्तु स्वामिने हितं प्रतिपादयन्ति अहितप्रतिषेधं च कुर्वन्ति, स्वामिनं च पृष्ठतः कृत्वा स्वयमग्रे भूत्वा स्वामिशत्रुभङ्गाय युद्ध्यन्ते । उपमहाधिकारे सत्यपि पुनरुपग्रहग्रहणं जीवानां परस्परं सुखदुःखजीवितमरणकरणोपकारसूचनार्थम् । तेन यथा सुखादिकं चतुष्टयं पुद्गलोपकारः तथा जीवाना- १० मप्युपकारः । यो जीवो यस्य जीवस्य सुखं करोति स जीवस्तं जीवं बहुवारान सुखयति, यो दुःखयति स तं बहुवारान दुःखयति, यो जीवयति स तं बहुवारान् जीवयति, यो मारयति स तं बहुवारान् मारयति । तथा चाह योगीन्द्रो भगवान् "मारिवि चूरिवि जीवडा जं तुहुँ दुक्खु करीसि । तं तह पासि अणंतगुण अवसे जीव लहीसि ॥१॥ मारिवि जीवहँ लक्खडा जं तुहुँ पावकरीसि । पुत्तकलत्तहँ कारणेण तं तुहुँ एक्कु सहीसि ॥२॥" [परमात्मप्र० गा० १२५, १२६ ] : अथ यदि सत्तारूपेण वस्तुना उपकारः क्रियते इति विद्यमानस्य वस्तुनोऽनुमितिर्विधीयते भवद्भिः, तर्हि कालद्रव्यमपि सत्तारूपेण वर्तते कस्तस्योपकार "इत्याहुः २. " वर्तना परिणामः क्रिया परत्वापरत्वे च कालस्य ॥ २२॥ वर्तना इत्येकं पदम् , परिणाम इति द्वितीयं पदम् , क्रियेति तृतीयं पदम् , परत्वापरत्वे इति चतुर्थ पदम् , च इति पञ्चमम् , कालस्येति षष्ठं पदमिति षट्पदं सूत्रमिदम् । क्वचित् चतुष्पदश्च दृश्यते, तदा 'वर्तनापरिणामक्रियाः' इत्येकं परत्वापरपरत्वे इति द्वितीयं पदम् , च इति तृतीयम् , कालस्येति चतुर्थम् । तदा ईदृग्विधः समासः वर्तना च परिणामश्च २५ क्रिया च वर्तनापरिणामक्रियाः । परत्वञ्चापरत्वं च परत्वापरत्वे इतरेतरद्वन्द्वः । कल्यते ज्ञायते १ पिता। २ गुरोरनुकूलवृ- आ०, ३०, ज०। गुर्वानुकुलवृ-व०। ३ -क चतुता०, ज० । ४ मारयित्वा जीवयित्वा जीवान् यत्त्वं दुःखं करिष्यसि । तत्तदपेक्षया अनन्तगुणमवश्यमेव जीव लभसे ।। मारयित्वा जीवानां लक्षाणि यत्त्वं पापं करिष्यसि । पुत्रकलत्राणां कारणेन तत्त्वमेकः सहिष्यसे ।। ५ इत्यर्थः ३० । इत्याह ता०। ६ -मक्रि आ०, ३०। ७ सर्वार्थसिद्धितत्त्वार्थवार्तिकादौ। For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy