SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९२ तत्त्वार्थवृत्ती [५।२० निष्कियः स्पर्शरहितश्च मनसः क्रियाहेतुर्न भवति । अत्र निश्चयनयो योजनीयः । उपचारेण तु क्रियाहेतुरस्त्येव जीवः। अथ प्राणापानस्वरूपं निरूप्यते-धीर्यान्तरायस्य ज्ञानावरणस्य च क्षयोपशमम् अङ्गोपाङ्गनामकर्मोदयं चापेक्षमाणो जीवोऽयं कोष्ठवातं बहिरुदस्यति प्रेरयति स वातः प्राणः उच्छ्वासा५ परनामधेयः । तथा, ताहग्विधो जीवः बहिर्वातमभ्यन्तरे करोति गृह्णाति नासिकादिद्वारेण सोऽपानः निश्वासापरनामधेयः । तौ द्वावपि जीवस्य जीवितकारणत्वात् अनुग्राहिणी उपकारको भवतः । ते मनःप्राणापानाः त्रयोऽपि प्रतिघातादिविलोकनात् मूर्तिमन्तो भवन्ति । मनःप्रतीघातो विद्युत्पातादिभिर्विलोक्यते, मनोऽभिभवो मद्यादिभिर्दश्यते । प्राणा पानप्रतीघातः करतलपुटादिमुखसंवरणाद् भवति, प्राणापानाभिभवः १सिध्मना निरीक्ष्यते । १० यदि मनःप्राणापाना अमूर्ता भवन्ति तर्हि मूर्तिमद्भिः अशन्यादिभिरभिघातादयो न भवन्ति, ते च दृश्यन्ते, कथममी मूर्तिमन्तो न भवन्ति ? अत एव कारणात् जीवस्यास्तित्वं सिद्धम् । यन्त्रप्रतिमाक्रिया यथा प्रयोक्तुरदृश्यमानस्याप्यस्तित्वं कथयति तथा प्राणापानादिक्रियापि जीवस्य क्रियावतोऽस्तित्वं सिद्धमाख्याति । अथापरोऽपि जीवस्य पुद्गलादुपकार उच्यते-- सुखदुःखजीवितमरणोपग्रहाश्च ॥ २०॥ सुखयति सुखम् , दुःखयति दुःखम् , जीवनं जीवितम् , म्रियतेऽनेनेति मरणम् , उपग्रहणानि उपग्रहाः । सुखं च दुःखं च सुखदुःखम् समाहारे द्वन्द्वः, तच्च जीवितञ्च मरणश्च सुखदुःखजीवितमरणानि, तान्येव उपग्रहाः उपकाराः सुखदुःखजीवितमरणो पग्रहाः। एते चत्वारोऽपि पुद्गलानामुपकारा जीवस्य भवन्ति । सवेद्यासद्वेद्ययोरुदये अन्त२० रङ्गहेतौ सति बहिर्द्रव्यादिपरिपाककारणवशादुत्पद्यमानः प्रीतिपरितापलक्षणः परिणामः सुखदुःखमुच्यते । भवधारणकारणस्य आयुष्कर्मण उदयात् भवस्थितिं धरतो जीवस्य प्राणापानक्रियायाः अविच्छेदो जीवितम् । प्राणापानक्रियोच्छेदो मरणमुच्यते । एतच्चतुष्टयं पुद्गलकृतोपकारो जीवस्य वेदितव्यः। स मूर्तिमत्कारणसन्निधाने समुत्पद्यते यतस्ततः पौगलिक एव । ननु उपग्रहशब्देनोपकार' इत्युच्यते । स उपकारः अधिकारादेव लभ्यते किमर्थं पुन२५ रुपमहणम् ? इत्याह-सत्यम्; पुनरुपग्रहग्रहणं पुद्गलानां पुद्गलकृतोपकारसूचनार्थम् । तथाहि ताम्रादीनामम्लादिभिरुपकारः, उदकादीनां कतकादिभिरुपकारः, लोहादीनां जलादिभिरुप. कारो भवति । चकारः समुच्चये वर्तते । तेन चक्षुरादीनि इन्द्रियाण्यपि शरीरादिवत् जीवोपकारकाणि भवन्ति । ___ अथ ज्ञातो धर्माधर्माकाशपुद्गलोपकारः, जीवस्य क उपकार इति प्रश्ने ग्रहणमिद३० मुच्यते १ रोगविशेषेण किलासनाम्ना । सिद्धानां नि- भा०, ब०, ज.। २ -हारो द- ता०, ३ -ग्रहाः सु- मा०, ब०, ज०। ४ -र उ- ता०, व.। For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy