SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५।१९] पश्चमोऽध्यायः १९१ न भवति अङ्गोपाङ्गनामकर्मलाभश्च न स्यात् तदा वागुच्चारण उत्साहो नोत्पद्यते तेन भाववाक् पौद्गलिकी भवति । भाववाक्सामर्थ्यसहितेन जोवेन चेष्टावता चोद्यमानाः पुद्गलाः वचनत्वेन विविधं परिणमन्ते, तेन कारणेन द्रव्यवागपि स्फुटं पौद्गलिकी भवति । सा द्रव्यवाक् शब्दप्रहेन्द्रियगोचरा भवति । ननु पौद्गलिकी वाक् कर्णेन्द्रियविषया यथा भवति तथाऽपरेन्द्रियविषया कथन स्यात् ? सत्यम् ; अपरेन्द्रियाणां वाचोयुक्तौ अनुचितत्वात् तद्विषया ५ न स्यात, गन्धग्राहकनासिकेन्द्रियस्य रसाद्यविषयत्ववत् । ननु वागमूर्ता कथं पौगलिको भवद्भिरुच्यते ? सत्यम् ; मूर्तिमद्ग्रहणावरोधव्याघाताभिभवादिसभावात् वाग् मूर्तिमत्येव । अस्यायमर्थः-वाक् मूर्तिमता कर्णेन्द्रियेण यदि गृह्यते तर्हि कथममूर्त्ता ? तथा, मूर्तिमता कुड्यादिना यदि अवरुध्यते प्रतिबध्यते तर्हि कथं वागमूर्ता ? तथा, वागग्राहकमपि श्रोत्रेन्द्रियं काहलादिशब्देनान्तरितमपरं शब्दं ग्रहीतुं न १० शक्नोति बधिरत्वलक्षणो व्याघातो भवति वाक् कर्णेन्द्रियमागन्तुं न शक्नोति । शब्देन व्याहन्यमाना वाक् कथममूर्ता ? तथा, मूर्तियुक्तेन प्रतिकूलेन मरुता वाक् व्याहन्यते कथममूर्ता ? तथाभिमतप्रदेशे गच्छतः पदार्थस्य व्यावर्तनम् अभिभव उच्यते । स कर्णेन्द्रियस्य झटिति शब्दग्रहणजननसामर्थ्य घटादिशब्दैः खण्ड्यते तिर्यग्वातेन च शब्दोऽभिभूयते कथं वाक् अमूर्ता ? तथा, पटहादिशब्दैमंशकादिशब्दा अभिभयन्ते । तदेतदसमीक्षाभिधानं वाचाममूर्तत्वं १५ भवद्भिः कृतमिति। मनोऽपि द्रव्यभावभेदाभ्यां द्विप्रकारम् । तत्र द्रव्यमनः ज्ञानावरणवीर्यान्तरायक्षयोपशमाङ्गोपाङ्गनामलाभहेतवः पुद्गला जीवस्य गुणदोषविचारस्मरणादिप्रणिधानाभिमुखस्य उपकारका मनस्वेन परिणताः द्रव्यमनः पौद्गलिकमेव । भावमनोऽपि लब्ध्युपयोगलक्षणम् । तदपि पुद्गलावलम्बनं पौद्गलिकमेव जीवस्योपकारकं भवति । ननु मनोऽणुमात्रम् , कोऽर्थः ? २० सूक्ष्मम् , द्रव्यान्तररूपरसादिपरिणामरहितं पौद्गलिकं कथम् ? सत्यम्; मनः पौद्गलिकमेव । अणुमात्रं मनो हृषीकेणात्मना च सम्बद्धम् , असम्बद्धं वा ? असम्बद्धं चेत्; तत् आत्मन उपकारकं न भवति, हृषीकस्य च सहायत्वं न विद्धाति। यदि हृषीकेणात्मना च सम्बद्ध वर्तते, तर्हि एकस्मिन् प्रदेशे सम्बद्धं सत् तन्मनः अणु सूक्ष्ममपरेषु प्रदेशेष्वात्मन उपकारं नो विदध्यात् ? अपि तु विदध्यादेव। तेन पौद्गलिकेन इन्द्रियेण मिलितस्यात्मनः २५ उपकारं कुर्वत् पौद्गलिकमेव। भवतु नाम उपकारकं मनः, अदृष्टवशादस्य मनसः आत्मा आलातचक्रवत् उल्मुक वक्रवत् परिभ्रमणं करोति; तन्न; परिभ्रमणसामर्थ्याभावात् । आत्मा ह्यमूर्तः निष्क्रियश्च वर्तते, तस्यात्मनः अमूर्तत्वं निष्क्रियत्वञ्च गुणोऽदृष्टो वर्तते, स आत्मा क्रियारहितः सन् मनसः क्रियारम्भं कर्तुमसमर्थः। मारुतद्रव्यविशेषस्य क्रियावतः स्पर्शवतश्च गुणो दृष्टो वर्तते स मा (म)रुतो वनस्पतेश्च परिनन्दहेतुर्भवति तद्युक्तमेव, आत्मा तु ३० १ -गलाम-आ०, ब०, ज० । २ अथ तु व० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy