SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५।१८] पञ्चमोऽध्यायः १८९ करोति, जलमपि कस्यचित् गतिं ददाति कस्यचिद् गतेः प्रतिबन्धकं भवति, तेन पृथिवीजलादीनि विशेषोक्तानि एकस्य कार्यस्य अनेककारणसाध्यानि च तेन धर्माधर्मों साधारणाश्रयः गतिस्थित्योरिति वावेव प्रमाणम् । ननु धर्माधर्मो तुल्यबलौ वर्तते तेन धर्मः स्थितिप्रतिबन्धको भविष्यति अधर्मस्तु गतिप्रबन्धको भविष्यतीति चेत् ; न; तौ अप्रेरकावुक्ती, धर्मो गतिकार्ये न प्रेरकः अधर्मश्च स्थितिकार्ये न प्रेरकः तेन न परस्परं प्रतिबन्धकाविति । ननु धर्माधमौं ५ नोपलभ्येते तेन तौ न स्तः खरविषाणवदिति चेत् ; न ; सर्वेषां प्रवादिनामविप्रतिपत्तेः धमाधम्र्मों विद्यते एव। सर्वे हि प्रवादिनः प्रत्यक्षानप्रत्यक्षांश्च अर्थानभिवाञ्छन्ति, तेन अनुपलब्धिरिति हेतुः अस्मान् प्रति न सिद्ध्यति । यथा च निरतिशयप्रत्यक्षकेवलज्ञानलोचनेन सर्वज्ञवीतरागेण धर्मादयः पदार्थाः सर्वे उपलभ्यन्ते "सर्वद्रव्यसर्वपर्यायेषु केवलस्य" [त० सू० ११२९ ] इति वचनात् , तस्य च उपदेशात् श्रुतज्ञानिभिरपि धर्मादय १० उपलभ्यन्ते । अथात्राह कश्चित्-उपकारसम्बन्धबलेन अतीन्द्रिययोरपि धर्माधर्मयोरस्तित्वं भवद्भिरवधृतम् , ताभ्यामनन्तरं यदुक्तमाकाशं तस्य का प्रवतंत उपकारो येनातीन्द्रियस्यापि तस्याधिगमः सञ्जायते विदुषामिति प्रश्ने सूत्रमिदमाहुः आकाशस्यावगाहः ॥१८॥ आ समन्तात् काशते चमत्करोति इति आकाशः। अवगाहनमवगाहः जीवपुंगलादीनाम् अघगाहिनामवकाशदानमवगाह उच्यते । सः अवगाह आकाशस्य सम्बन्धी उपकारो भवति, जीवपुद्गलानाम् आकाशेन उपकारः क्रियते इत्यर्थः । ननु जीवपुद्रला अवगाहिनः क्रियावन्तो वर्तन्ते तेषामवकाशदानम् आकाशस्य साम्प्रतमेव युक्तमेव, घटत एव-सङगच्छत इति यावत् , परं निष्क्रियाणां नित्यसम्बन्धानां धर्मास्तिकायादीनामवगाहः कथं घटते ? २० सत्यम् ; निष्क्रियाणामपि धर्मादीनाम् उपचारादरगाहः सङ्गच्छते । यथा सर्व गच्छति इति सर्वगतः, आकाशस्तु गमनाऽभावे सर्वगत इत्युच्यते। कस्मात् ? अन्यत्यक्षतो विद्यमानत्वात् । तथा धर्माधर्मावपि सर्वत्र व्याप्तिदर्शनादवगाहनक्रियाऽभावेपि अवगाहिनौ इत्युपंचयते । ननु आकाशस्य अवकाशदानं श्रीमद्भिरुच्यते तर्हि कुलिशादिभिः लोष्टादीनां मृत्पिण्डादीनां व्याघातो न भविष्यति, तथा "एडुकादिभिरश्वादीनां च व्याघातो न भवि- २५ प्यति; सत्यम; भिदुरपाषाणादीनां स्थूलत्वं वर्तते तेन स्थूलेन स्थूलो व्याहन्यत एव । कुलिशादीनां शिलादिव्याहनने आकाशस्यावकाशदानसामथ्यं न हीयते अवगाहिनामेव परस्परव्याघातात् । स्थूला वनादयोऽन्योन्यमवकाशदानं यदि न कुर्वन्ति तदा किमाकाशस्य दोषः ? ये खलु सूक्ष्मपुद्गलाः तेऽपि अन्योन्यमवकाशदानं विदधति कथं सूक्ष्ममाकाशं सूक्ष्माणां धर्मादीनामवकाशं न ददाति ? एवं चेत् आकाशस्यासाधारणम् अवकाशदानं लक्षणं न ३० १-पुद्गलानां आ०, २०, ज०। २ युक्तं घ- आ०, ब०, ज०। ३ प्रत्यक्ष- आ०, ब०, ज०।४-पचयते आ०.ब०, ज०, ३० । ५ एडका- आ०, ब० ॥ For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy