SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८८ [१।१७ तत्त्वार्थवृत्तौ गतिस्थित्युपग्रहो धर्माधर्मयोरुपकारः ॥ १७ ॥ गमनं गतिः, स्थानं स्थितिः, उपगृह्यते इत्युपग्रहः। शब्दविग्रहः कृतः । इदानी समासविग्रहः क्रियते-देशान्तरप्राप्तिकारणं गतिः, देशान्तराप्राप्तिप्रत्यया स्थितिः, गतिश्च स्थितिश्च गतिस्थिती, ते एव उपग्रहोऽनुग्रहः' कारणत्वं गतिस्थित्युपग्रहः । धर्मश्च अधर्मश्च ५ धर्माधर्मों तयोः धर्माधर्मयोः । उपक्रियते इत्युपकारः। “कर्तृकर्मणोः कृति नित्यम्" [ का० सू० २।४।४१ ] इति वचनात् । धर्माधर्मयोरित्यत्र कर्तरि षष्ठी ज्ञातव्या। तेनायमर्थः-गत्युपग्रहो गतिकारणं धर्मेण कर्तृभूतेन जीवपुद्गलानाम् उपकारः कर्मतापन्नः क्रियते । स्थित्युपग्रहः स्थितिकारणमधर्मेण कर्तृभूतेन जीवपुद्गलानामुपकारः कर्मतापन्नः क्रियते । गतिस्थितिकारणं धर्माधर्मयोः उपकारः कार्य भवतीत्यर्थः । एवं चेत् 'गत्युपग्रहः' १० इत्यत्र द्विवचनं घटते, उपकारशब्देपि द्विवचनं घटते; तन्नाशङ्कनीयम् ; सामान्येन व्युत्पादितः शब्दः उपात्तसङ्ख्या शब्दान्तरसम्बन्धेऽपि सति तत्पूर्वोपात्तसंख्यां न मुञ्चति । धर्माधर्मयोरित्यत्र द्विवचनसहितशब्दसम्बन्धेपि सति उपग्रह उपकारश्च द्वौ शब्दौ एकवचनत्वं न मुञ्चत इत्यर्थः, यथा 'मुनेः कर्तव्यं तपःश्रुते' इति । अत्रायमर्थः-गतिपरिणामयुक्तानां जीवपुद्गलानाम् उभयेषां गतिकारणे कर्तव्ये धर्मास्तिकायः सामान्याश्रयो भवति मीनानां १५ गमनप्रयोजने तोयवत्। एवं स्थितिपरिणामयुक्तानां जीवपुद्गलानाम् उभयेषां स्थित्युपग्रहे स्थितिकारणे उपकारे कर्तव्ये सति अधर्मास्तिकायः सामान्याश्रयो भवति अश्वादीनां स्थितिप्रयोजने सति पृथिवीधातुवत् । कोऽर्थः ? दधातीति धातुराधारः, पृथिव्येव धातुः पृथिवीधातुः, भूम्याधार इवेत्यर्थः। ननु उपग्रहशब्दोऽप्रयोजनः, उपकारशब्देनैव सिद्धत्वात् , तेन ईदृशं सूत्रं क्रियताम् । ईदृशं कीदृशम् ? 'गतिस्थिती धर्माधर्मयोरुपकारः'; सत्यम् ; २० यथासङ्ख्यं मा भूत् इत्युपग्रहशब्दग्रहणम् । एवं सूत्रे सति धर्माधर्मयोः गतिस्थित्योश्च यथासङ्ख्ये जाते सति जीवपुद्गलानामपि यथार्सङ्ख्यं जायते। तथा सत्ययं दोष उत्पद्यते । कोऽसौ दोषः ? धर्मस्योपकारो गतिर्जीवानां भवति, अधर्मस्योपकारः स्थितिः पुद्गलानां भवति, एवं सति महान् दोषः सम्पनीपद्यते तद्दोषनिराकरणार्थम् उपग्रहशब्दो गृह्यते । ननु धर्माधर्मयोरुपकारः गतिस्थितिलक्षण आकाशस्य सङ्गच्छते, यत आकाशे जीवाश्च २५ पुद्गलाश्च गच्छन्ति च तिष्ठन्ति च किं धर्माधर्मद्रव्यद्वयग्रहणेन ? सत्यम् ; आकाशस्यापरोप कारस्य विद्यमानत्वात् । कोऽसावपरोपकारः ? धर्माधर्मजीवपुगलकालानामवगाहनमाकाशस्य प्रयोजनम् "आकाशस्यावगाह" [त० सू० ५।१८ ] इति वचनात् । एकस्य द्रव्यस्य अनेकप्रयोजनस्थापनायां लोकालोकभेदो न स्यात् । ननु पृथिवीतोयादीन्येव तदुपकारसमर्थानि किं प्रयोजनं धर्माधर्माभ्यामिति ? सत्यम् ; पृथिवीजलादीनि असाधारणाश्रयः । कथमसाधारणाश्रयः ? पृथिवीमाश्रित्य कश्चित् गतिं करोति करयचित् ( कश्चित् ) गतिभङ्गं १ -हका- आ०, ज०, व०, १० । २-ति योगवच- आ०, ज०, ब० । ३ -ग्रहः स्थित्युपग्रह इ-व०। ४ -संख्ये जा-- भा०, ब०, ज.1५ -द्रलानामय-व० । ६ एकद्रव्य-ध. For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy