SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५।१६] पञ्चमोऽध्यायः १८७ संख्येयभागादिषु प्रवृत्तिः कथम् सर्वलोकव्याप्तिभवत्येकस्य जीवस्य' इति प्रश्ने सति लोकप्रसिद्धदृष्टान्तेन अल्पप्रदेशव्याप्तिरपि भवतीति प्रतिपादनार्थ सूत्रं स्वामिनः प्राहुः प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् ॥ १६ ॥ ... प्रदिश्यन्ते प्रसार्य्यन्ते सङ्कोच्यन्ते वा प्रदेशाः, संहरणं सङ्कोचनं संहारः, विसर्पणं प्रसारणं विसर्पः, संहारश्च निसर्पश्व संहारविसौ, प्रदेशानां संहारविसौ प्रदेशसंहारविसपौं, ५ ताभ्यां प्रदेशसंहारविसर्पाभ्याम् । अस्यायमर्थः-लोकस्य असङ्ख्येयभागादिषु जीवस्यावगाहः प्रवृत्तिर्भवति । कस्मात् ? प्रदेशानां संहारात् सङ्कोचात् अल्पक्षेत्रे जीवस्तिष्ठति, प्रदेशानां विसर्पात् प्रसरणात् जीवो पहुषु भागेषु तिष्ठति। एवं व्याख्याने सति प्रदेशसंहारविसर्पाभ्यामित्यत्र पश्चमीद्विवचनं घटते। करणापेक्षया तृतीयाद्विवचनं च घटते, तत्र प्रदेशसंहारेण प्रदेशविसर्पण चेति व्याख्यातव्यम् । प्रदेशानां संहारः कथं विसर्पश्च कथं भवति ? प्रदीप- १० वत्-यथा प्रदीपस्य प्रकाशः निरावरणाकाशप्रदेशे अनवधृतप्रकाशपरिमाणं भवति, स एव दीपः यदा वर्द्धमानेन-शरावेण आबियते तदा तस्य प्रदीपंप्रकाशस्य शरावमात्रक्षेत्रे प्रवृत्तिर्भवति । यदा तु मानिकया ४ढक्कणिकया स्थालीपिधानेन आत्रियते तदा शरावक्षेत्रात् किश्चित् बहुतरक्षेत्रे प्रदीपप्रकाशप्रवृत्तिः भवति । यदा तु स एवं प्रदीपः कुण्डेनाब्रियते तदा मानिकाक्षेत्रात् किश्चित् बहुतरक्षेत्रे प्रदीपप्रकाशप्रवृत्तिर्भवति । यदा स एव प्रदीपः अपवर- १५ कादिनात्रियते तदा तस्मादपि अधिकप्रकाशो भवति । एवं जीवोऽपि यद्यपि अमूर्तस्वभावो वर्तते तथापि अनादिसम्बन्धक्यात् कथञ्चिन् मूर्तो भवन कार्माणशरीरवशात् अणुशरीरं महच्छरीरञ्चाधितिष्ठन् तच्छरीरवशात् प्रदेशानां संहरणं विसर्पणं च करोति । तावत्प्रमाणतायाम् सत्याम् असङ्ख्येयभागादिषु प्रदेशप्रवृत्तिर्जीवस्योपपद्यते । ननु धर्मादीनां परस्परप्रदेशानुप्रवेशो यदा भवति तदा सङ्करः सञ्जायते व्यतिकरो भवति । कोऽर्थः ? एकत्वं प्राप्नोति; २० सत्यम् ; धर्मादीनामन्योन्यमत्यन्तश्ले षेऽपि सति-व्यामिश्रतायामपि सत्यां धर्मादीनि द्रव्याणि निजनिजस्वभावं न मुञ्चन्ति-धर्मो मिलितोऽपि गतिं ददाति, अधर्मो मिलितोऽपि स्थितिं ददाति, आकाशो मिलितोऽपि अवकाशं ददाति इत्यादि स्वभावस्यापरिहारो वेदितव्यः। तथा चाभाणि "अणोण्णं पविसंता देंता अवकासमण्णमण्णस्स । मिल्लंता वि य णिच्चं सगसब्भावं ण विजहंति ॥"" [पंचास्ति० गा०७] अथ कस्तेषां स्वभाव इति प्रश्ने धर्माधर्मयोः स्वभावस्तावदुच्यते १ -कजी -व० । २ सूत्रमिदं स्वा- आ०, ज०, ब० । ३ -पस्य प्र- आ०, ज०, ब०। ४ दृढं कणिकस्थालीकयावा आ- आ०, ज०, ब० । ५ एव दीपः भा०, ज०, ०। ६ सत्यम् आ०, ब०, ज०। ८ - सति भा०, ज०, ब । ९ अन्योन्यं प्रविशन्तः ददन्तोऽवकाशमन्योऽन्यस्य । मिलन्तोऽपि च नित्यं स्वकस्वभाव न विजहन्ति ।। For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy