SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १० www.kobatirth.org ५८६ तत्वावृत्ती [4184 द्वौ परमाणू अबद्धौ अवकाशं प्राप्नुतः त्रिषु च आकाशप्रदेशेषु द्वौ च परमाणू बहवश्च परमाणवो बद्धा अबद्धाश्चावगाहं लभन्ते । सोऽवगाहो लोकाकाशप्रदेशेष्वेव न परत इति प्रत्येतव्यम् । ननु धर्म्माधमा अमूर्ती वर्तेते तेन कारणेन यदि एकत्र अविरोधेनावरोधं लभेते अवस्थानम्, अवगाहं लभेते, तत् युक्तम्, पुद्गलास्तु मूर्तिमन्तः ते एकसंख्येयासंख्येयप्रदे५ शेषु लोकाकाशेषु कथमेकसङ्ख्येयास ख्येयप्रदेशाश्च कारादनन्त प्रदेशाश्च पुद्गलस्कन्धा अवस्थानं लभन्ते इति ? अत आह-- सत्यम् ; अवगाहनस्वभावात् सूक्ष्मपरिणामाच्च तथाविधे क्षेत्रे मूर्तिमन्तोपि अवस्थानं लभमानाः पुद्गलस्कन्धा न विरुद्धधन्ते । यथा एकस्मिन्नपवर के अनेके प्रदीपादि प्रकाशा अवगाई लभन्ते तथा एकादिप्रदेशेष्वपि अनन्ताश्च पुद्गल - स्कन्धा अवकाशं लभन्त इति वेदितव्यम् । तथा प्रमाणभूतश्चागमोऽत्र वर्तते - "" ओगाढगाढणिचिदो पुग्गलकायेहिं सव्वदो लोगो । सुमेहिं बादरेहिं य णंताणंतेहि विविहेहि ॥" [पवयणसा० २।७६ ] तत्र महाकर्पासपिण्डोपि दृष्टान्तः । अथ विज्ञातमेतत् पुद्गलानामवगाहनम् । जीवावगाहनं कीदृशमिति भण्यतेअसङ्ख्य भागादिषु जीवानाम् ॥ १५ ॥ संख्यायते संख्येयः न संख्येयः असंख्येयः, असंख्येयो भाग आदिर्येषां भागानां ते असंख्येयभागादयस्तेषु असंख्येयभागादिषु । जीवन्ति जीविष्यन्ति जीवितपूर्वा वा जीवाः, तेषां जीवानाम्, लोकाकाशे असंख्येयभागादिषु अवगाहो भवति । कोऽर्थः ? लोकाकाशस्य असंख्येया भागाः क्रियन्ते तेषां मध्ये एको भागो गृह्यते, तस्मिन्नेकस्मिन् भागे एको जीवस्तिष्ठति । आदिशब्दात् द्वयोर्भागयोरेको जीवस्तिष्ठति, तथा त्रिषु भागेष्वेको जीवस्तिष्ठति, तथा २० चतुर्षु भागेष्वेको जीवस्तिष्ठति । एवं पञ्चादिष्वपि भागेषु एको जीवस्तिष्ठति तथा यावत् सर्वानपि भागान् लोकपूरणापेक्षया व्याप्नोति । नानाजीवानां त्ववगाहः सर्व एव लोको वर्तते । अत्राह कश्चित् - यद्येकस्मिन् असंख्येयभागे एको जीवोऽवतिष्ठते तर्हि एकस्मिन् भागे द्रव्यप्रमाणतोऽनन्तानन्तो जीवराशिः शरीरसंयुक्तः कथमवतिष्ठते ? सत्यम् ; लोकाकाशे सूक्ष्मबादरभेदात् अवस्थितिः प्रत्येतव्या । तत्र बादराः परकृतबाधया चोपघातं लभन्ते, २५ सूक्ष्मजीवास्तु सशरीरा अपि सूक्ष्मत्वात् एकस्मिन्निगोदजीवाऽवगाढे प्रदेशेऽनन्ताऽनन्ता वसन्ति, ते सूक्ष्माः प्राणिनः परस्परेण प्रतिघातं न लभन्ते, बादरेश्च नैव प्रतिहन्तुं शक्यन्ते तेनावगाहविरोधो नास्ति । अथ 'लोकाकाशतुल्यप्रदेशे किल एको जीवोऽवतिष्ठते इत्युक्तं भवद्भिः, तस्य लोका १५ Acharya Shri Kailassagarsuri Gyanmandir १ - णवश्च त्र - अ० ज०, ब० । २ स्थाने अवगाहनं ल- आ० ज०, ब० । ३ -मत्वाच्च आ० ज० । ४ एकस्मिन्नेव आकाशे अनेके आ० ज०, ब० । ५ अवगाढगाढनिचितः पुलकायैः सर्वतो लोकः । सूक्ष्मैः बादरैश्च अनन्तानन्तैः विविधैः ॥ ६ - वगाहे प्रआ०, ज०, ब० । ७ लोकसंख्येय- व० | लोकस्यासंख्येय- ज०, आ०, ब० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy