________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५।१३-१४] पञ्चमोऽध्यायः
१८५ तथा च लोके केनचित् पृष्टं क त्वं तिष्ठसि ? स चाह-अहमात्मनि तिष्ठामि । अत्र आधाराधेयकल्पनायाः प्रयोजनं किम् ? इदमेव प्रयोजनं यल्लोकाकाशाद् बहिः न किमपि द्रव्यं वर्तते अन्यत्राकाशात् । अथ कश्चिदाह लोके वस्तूनामाधाराधेयभावः पूर्वोत्तरकालभावी दृश्यते । यथा पिटकः पूर्व स्थाप्यते पश्चात् बदरादीनि तत्राधीयन्ते, तथा पूर्वकाले आकाशः स्थाप्यते उत्तरकाले तु धर्मादीन्याधीयन्ते, तेनोपचारेणापि आधाराधेयकल्पना न वर्तते; ५ सत्यम् ; समकालभाविनामपि पदार्थानामाधाराधेयभावो दृष्ट एव घटवत् , यथा घटे रूपादयः काये करादयो युगपद् दृश्यन्ते तथा आकाशे धर्मादयो युगपद् भवन्तीति नास्ति दोषः ।
__ आकाशं द्विप्रकारम्-लोकाकाशम् अलोकाकाशं च । कस्मात् ? धर्माधर्मास्तिकायभावात् । असति धर्मास्तिकाये जीवपुद्गलानां गतिहेत्वभावो भवति, असति अधर्मास्तिकाये स्थितिहेत्वभावो भवति, उभयाऽभावे गतिस्थित्यभावे लोकालोकविभागो न भवेत् । अत १० एव गतिस्थितिसद्भावे लोकालोकविभागः सिद्धः। अथ धर्माधर्मयोः विशेषशक्तिसूचनार्थ सूत्र मिदं प्रतिपालयन्ति
धर्माधर्मयोः कृत्स्ने ॥ १३ ॥ धर्मश्चाधर्मश्च धर्माधर्मों तयोः धर्माधर्मयोः। धर्मस्य अधर्मस्य च कृत्स्ने सर्वस्मिन् लोकाकाशे अवगाहो भवति, गृहस्थितस्य घटस्येव नियतोऽवगाहो नास्तीत्यर्थः किन्तु सर्वत्र १५ लोकाकाश एतयोयोरवकाशोऽरित तिलेषु तैलवत् । स चावगाहः अवगाहनशक्तियोगाद् भवति, परस्परप्रवेशे सति परस्परस्य व्याघातो न भवति। अत्राह कश्चित्-स्थितिदानस्वभावस्य अधर्मद्रव्यस्य लोककाशे स्थितस्य परतोऽभावात् कथमलोकाकाशः स्थितिं करोति ? तथा कालद्रव्यं विना कथमलोकाकाशो वर्तते ? सत्यम् ; यथा-तप्तायःपिण्डो जलपावें स्थितः एकस्मिन् पावें जलावकर्षणं करोति तज्जलं सर्वत्र लोहपिण्डे व्याप्नोति तथा लोकस्य पार्वे २० स्थितमलोकाकाशम् अधर्म कालद्रव्यञ्च स्पृशत् स्थितिं करोति वर्तते च ।
अतः ( अथ) कारणात् विपरिणतानां मूर्तानाम् एकप्रदेशसङ्ख्येयाँसङ्ख्येयानन्तप्रदेशानामवगाहनविशेषपरिज्ञापनार्थं सूत्रमिदमाहुः
____एकप्रदेशादिषु भाज्यः पुद्गलानाम् ॥ १४ ॥
एकश्चासौ प्रदेशः एकप्रदेशः, एकप्रदेश आदिर्येषां द्विव्यादिप्रदेशानां ते एकप्रदेशादयः २५ तेषु एकप्रदेशादिषु। पुद्गलानामेकप्रदेशादिषु अवगाहो भाज्यो विकल्पनीयः भाषणोय इत्यर्थः । यथा व्याकरणे अवयवेन विग्रहो भवति समुदायः समासार्थो भवति तथा एकप्रदेशोऽपि गृह्यते बह्यश्च प्रदेशा गृह्यन्ते । तथाहि-एकस्मिन् विहायःप्रदेशे एकस्य परमाणोरवगाहो भवति, एकस्मिन्नाकाशे द्वयोः परमाण्वोश्वावगाहो भवति, एवमेकस्मिन्नाकाशप्रदेशे त्र्यादीनामपि सङ्ख्येयासङ्ख्येयानन्तप्रदेशानां स्कन्धानामवकाशो वेदितव्यः। तथा द्वयोराकाशप्रदेशयोः ३०
१ धर्मास्तिकायभावात् १० । धर्मास्तिकायाभावाभा-व० । २ -परव्या- आ० । ३ -नाम प्रदेश सं- ता०, ३० । ४ -यानन्त- ज०, मा० ।
२४
For Private And Personal Use Only