SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८४ तत्त्वार्थवृत्ती [५।११-१२ सम्मान्ति । कस्मात् ? सूक्ष्मपरिणामावगाहनशक्तियोगात् । पुद्रलपरमाणूनामवगाहने या शक्तिवर्तते सा अव्याहता वर्तते, तां शक्तिं कोऽपि व्याहन्तुं न शक्नोति । अतः कारणात् एकस्मिन्नाकाशप्रदेशे अनन्तानन्तानां परमाणूनामवस्थानं न विरुद्धम् । अथ 'सङ्ख्येयाऽसङ्ख्येयाश्च पुद्गलानाम्' इति सूत्रे विशेषरहिताः पुद्गलाः प्रोक्ताः, ५ तेन अविशेषवचनतया एकस्यापि परमाणोः तादृशाः 'प्रदेशा भविष्यन्तीत्याशङ्कायां तन्निषेधार्थ सूत्रमिदमुच्यते नाणोः ॥ ११ ॥ अणोः एकस्य परमाणोः 'प्रदेशाः न भवन्ति' इति वाक्यशेषः । कुतो न भवन्तीति चेत् ? अणोः एकप्रदेशमानत्वात् । यथा एकाकाशप्रदेशस्य प्रदेशभेदाभावात् अप्रदेशत्वं १० वर्तते, तथा एकस्य अविभागस्याणोरपि अप्रदेशत्वं ज्ञातव्यमिति । यतः एकस्य परमाणोर्भेदः कतु केनापि न शक्यते। ___"परमाणोः परं नाल्पं नमसो न परं महत् ।" [ ] इति वचनात् अणोरप्यणीयानपरो न वर्तते कथमणोः प्रदेशाः भिद्यन्ते ? अथ धर्माधर्मजीवपुद्गलादीनामधिकरणपरिज्ञानार्थ सूत्रमिदमुच्यते लोकाकाशेऽवगाहः ॥ १२ ॥ लोक्यन्ते विलोक्यन्ते धर्मादयः पदार्था यस्मिन्निति लोकः, लोकस्य सम्बन्धी आकाशो लोकाकाशः तस्मिन् लोकाकाशे । लोक इति "करणाधिकरणयोश्च" [ का० त० ४।५।९५] इत्यनेन अधिकरणे घञ्। अवगाहनमवगाहः अवकाश इत्यर्थः। धर्माधर्मजीवपुद्गल- कालद्रव्याणां लोकाकाशे अवगाहोऽवकाशो भवति, अलोकाकाशे धर्मादीनां द्रव्याणां प्रवेशो २० न भवतीत्यर्थः। यदि धर्माधर्मजीवपुगलकालानां लोकाकाशमधिकरणमाधारो वर्तते तर्हि आकाशस्य किमधिकरणमिति चेत् ? तन्न; आकाशस्याधिकरणमन्यन्न वर्तते, आकाशः स्वप्रतिष्ठो वर्तते । यद्याकाशः स्वप्रतिष्ठोऽस्ति तर्हि धर्मादयोऽपि स्वप्रतिष्ठा एव, यदि धर्मादीनामाधारोऽन्यः प्रकल्प्यते भवद्भिः तर्हि आकाशस्याप्याधारोऽन्यः कल्प्यताम् , "एवश्च सति अनवस्थाप्रसङ्गो भवतीति ; तन्न ; आकाशादधिकपरिमाणमन्यद् द्रव्यं न वर्तते यस्मिन् द्रव्ये २५ आकाशं स्थितमिति कथ्यते । आकाशो हि सर्वतोऽनन्तः । धर्मादीनां यत्पुनराधार आकाशः कल्प्यते तद्व्यवहारनयापेक्षया। एवम्भूतनयापेक्षया तु सर्वाण्यपि द्रव्याणि स्वप्रतिष्ठानि वर्तन्ते । एवम्भृत इति कोऽर्थः ? निश्चयनय इत्यर्थः । तथा चाभाणि "ते पुणु वंदउं सिद्धगण जे अप्पाणि वसंति । लोयालोउवि सयलु इहु अच्छहिं विमलु णियंत ॥ [ परमात्मप्र० १।५] १ -दृशाः भ- ता० । २ - कालद्रव्याणां लो- आ०, ज० । ३ -शस्तु स्व- आ०, ज० । ४ एवं सति अनवस्थाप्रसङ्गोपि भ- आ०, ज०। ५ -भूतमिति ता०। ६ तान् पुनर्वन्दे सिद्ध गणान् ये आत्मनि वसन्ति । लोकालोकमपि सकलमिह तिष्ठन्ति विमलं पश्यन्तः । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy