SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५।८-१०] पञ्चमोऽध्यायः असङख्येयाः प्रदेशा धर्माधम्मैकजीवानाम् ॥ ८॥ सङ्ख्यायन्ते संख्येयाः न सङ्ख्येया असङ्ख्येयाः "आत्खनोरिच्च" [ का० सू० ४।२।१२] प्रदिश्यन्ते प्रदेशाः। धर्मश्च अधर्मश्च एकजीवश्च धर्माधम्मैकजीवाः, तेषां धर्माधर्मेकजीवानाम् । धर्मादीनां त्रयाणामसङ्ख्येया सङ्ख्यामतीताः प्रदेशा भवन्ति । को नाम प्रदेशः १ यावति क्षेत्रे पुद्गलपरमाणुरवतिष्ठते तावदाकाशं प्रदेश इत्युच्यते । असङ्ख्येय- ५ त्रि प्रकार:-जघन्य उत्कृष्टः जघन्योत्कृष्टश्च । अत्र जघन्योत्कृष्टः असङ्ख्येयो गृह्यते । एतेषु धर्माधम्मा निष्क्रियौ लोकाकाशं व्याप्य स्थितौ। एकजीवस्तु तत्प्रमाणप्रदेशोपि सन् संहारविसर्पस्वभावात् निजकर्मनिर्मितं सूक्ष्मं महद्धा शरीरमधितिष्ठन् तावन्मात्रमेवावगाह्य तिष्ठति अन्यत्र लोकपूरणात् । यदा जीवो दण्डकपाटप्रतरपूरणलक्षणं लोकपूरणं करोति तदा मेरोरधः चित्रवनपटलमध्ये अष्टौ मध्यप्रदेशान् परिहत्य सर्वत्र तिष्ठति । लोकपूरणं १० चतुर्भिः समयः करोति चतुर्भिः संहरति च । एवं लोकपूरणकरणे अष्ट समयो लगन्ति । अथ आकाशस्य कियन्तः प्रदेशाः भवन्तीति प्रश्ने सुत्रमिदमाहुः आकाशस्थानन्ताः ॥९॥ आ समन्तात् लोके अलोके च काशते तिष्ठति आकाशः, तस्य आकाशस्य । न विद्यते अन्तोऽवसानं येषां प्रदेशानां ते अनन्ताः । आकाशस्य नभसः अनन्ताः प्रदेशा भवन्ति । १५ ___ अथ चतुर्णाममूर्तानां प्रदेशपरिमाणं ज्ञातम् , मूर्तानां पुद्गलानान्तु प्रदेशपरिमाणं वक्तव्यं तदर्थ सूत्रमिदमाहुः सङख्येयासङख्येयाश्च पुद्गलानाम् ॥ १०॥ सङ्ख्येयाश्च असङ्ख्येयाश्च सङ्ख्येयासङ्ख्येयाः। पुद्गलानां प्रदेशाः संख्येया असङ्ख्येयाश्च भवन्ति । चकारात् परीतानन्ताः युक्तानन्ता अनन्तानन्ताश्च त्रिविधानन्ताश्च २० भवन्ति । कस्यचित् पुद्गलद्रव्यस्य द्वथणुकादेः सङ्ख्येयाः प्रदेशा भवन्ति । ते तु आगमोक्तगणितशास्त्रपर्यन्तेपि सार्द्धशताङ्कपरिमिते अणुद्वयाधिके सति यावान् स्कन्ध एक उत्पद्यते तावान् स्कन्धः सख्येयप्रदेश उच्यते । कस्यचित् पुद्गलस्कन्धस्य असङ्ख्येयाः प्रदेशा भवन्ति । ते तु यावन्तो लोकाकाशप्रदेशास्तावद्भिः पुद्गलपरमाणुभिर्मिलितैर्य एक स्कन्ध उत्पद्यते तत्परिमाणस्कन्ध असंख्येयप्रदेश उच्यते। तेन कश्चित् स्कन्ध असङ्ख्येयासङ्ख्येय- २५ प्रदेशश्च भवति, कश्चित् स्कन्धः परीतानान्तो भवति अपरः कोऽपि युक्तानन्तप्रदेशो भवति, अन्यतमः कोऽपि अनन्तानन्तप्रदेशश्च भवति । एतत् त्रिविधमप्यनन्तं चशब्देन सामान्येन गृहीतमिति ज्ञातव्यम् । ननु लोकस्तावत् असङ्ख्यातप्रदेशः, स लोक अनन्तप्रदेशस्य अनन्तानन्तप्रदेशस्य च स्कन्धस्य कथमाधार इति विरोधः, ततः पुद्गलस्य अनन्तप्रदेशता न युक्ता ; सत्यम् ; परमण्विादयः सूक्ष्मत्वेन परिणता एकैकस्मिन्नपि आकाशप्रदेशे अनन्तानन्सास्तिष्ठन्ति १० १ प्रदिश्यन्ति भा०. ज० । २ -ति ए- ज०, आ० । ३ कोफ्ते ज०, व०। ४ -के या-मा०, ज०। ५-माणवः सू- आ०, ज० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy