SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १८२ www.kobatirth.org तस्वार्थवृत्त Acharya Shri Kailassagarsuri Gyanmandir [ ५७-८ अथाधिकृतानां धर्माधर्माकाशैकद्रव्याणां विशेषपरिज्ञानार्थं सूत्रमिदमुच्यते निष्क्रियाणि च ॥ ७ ॥ बाह्याभ्यन्तर कारणवशात् सञ्जायमानो द्रव्यस्य पर्यायः देशान्तरप्राप्तिहेतुः क्रिया कथ्यते । तस्याः क्रियाया निष्क्रान्तानि निष्क्रियाणि । चकारः समुचये वर्तते । तेनायमर्थ:धर्माधर्माकाद्रव्याणि न केवलमेकद्रव्याणि अपि निष्क्रियाणि च स्वस्थानं परित्यज्य जीव - ५ पुद्गलवत् परक्षेत्रं न गच्छन्तीत्यर्थः । ननु यदि धर्माधर्माकाशानि द्रव्याणि निष्क्रियाणि * वर्तन्ते चलनादिक्रियारहितानि सन्ति तर्हि तेषामुत्पादो न सङ्गच्छते । उत्पादो हि क्रियापूर्वको व्याख्यातः घटादिवत् । उत्पादाऽभावे व्ययोऽपि न स्यात् । एवञ्च सति धर्माधर्माकाशद्रव्याणाम् उत्पादव्ययत्रौव्यत्रयकल्पना वृथा; युक्तमुक्तं भवता हास्येन कथयति - युक्तमुक्तमयुक्त - मुक्तमित्यर्थः । एवं सर्वत्र चालनायां ज्ञातव्यम् । चलनादिक्रियाकारणोत्पादाऽभावेऽपि १० धर्माधर्माकाशानामपरथाप्युत्पादो वर्तते एव । तत्कथमिति चेत् ? उच्यते - स्वनिमित्तः परप्रत्ययश्चेदु (त्युत्पादो द्विविधः । तत्र स्वनिमित्तः आगमप्रमाणत्वात् अगुरुलघुगुणानाम अनन्तानन्तानामङ्गीक्रियमाणानां षट्स्थानपतितया वृद्ध या षट्स्थानपतितया हान्या च वर्तमानानामेषामुत्पादो व्ययश्च स्वभावादेव वर्तते । परनिमित्तोऽप्यस्ति "नरकरभा दिगतिस्थित्यवगाहनिमित्तत्वात् समये समये तेषां भेदात् तद्धेतुत्वमपि भिन्नभिन्नमिति परप्रत्ययापेक्ष उत्पादो १५ व्ययश्चोपचर्यते । चचितमप्यनु चर्च्यते-- ननु धर्म्माधर्माकाशानि चेत्क्रियारहितानि वर्तन्ते तर्हि जीवानां पुद्गलानाञ्च गतिस्थित्यवकाशहेतवः कथं भवन्ति ? यतः सर्वतोमुखादीनि स्वयं क्रियावन्ति वर्तन्ते तानि 'तिम्यादीनां गतिस्थित्यवकाशदानकारणानि सङ्गच्छन्ते न निष्क्रियाणि धर्माधर्म्माकाशद्रव्याणि इति; सत्यम्; यथा चक्षू रूपग्रहणे निमित्तं तथा धर्मादीनि जीवानां बलाधाननिमित्तमिति । अत्र धर्म्माधर्म्माकाशानां निष्क्रियत्वमङ्गीकृतं जीव- २० पुद्गलानां सक्रियत्वमर्थापत्ते रेवायातम्, न तु कालस्य सक्रियत्वमस्ति जीवपुद्गलः सह अधिकारातून कालोsपि निष्क्रियत्वं प्राप्त इत्यर्थः । पुद्गलानां रूपित्वं धर्माधर्म्माकाशानामेकद्रव्यत्वं निष्क्रियत्वञ्च त्रिभिः सूत्रैः प्रतिपादितम्, अर्थात् जीवानां यथायोग्यमरूपित्वमनेकद्रव्यत्वं सर्वक्रि (सकि) यत्वञ्च सिद्धमिति । अथ “अजीवकाया धर्माधम्र्माकाशपुद्गलाः " [५/१] इत्यत्र कायशब्दग्रहणात् २५ प्रदेशानामस्तित्वं निश्चितम् परं प्रदेशानामियत्ता न ज्ञायते—कस्य द्रव्यस्य कियन्तः प्रदेशा इति तत्प्रदेशपरिज्ञानार्थं योगोऽयमुच्यते " For Private And Personal Use Only १ - व्यक- द० । २ चलना - आ०, ब०, ज० । ३ - यानिमिचोत्पा- ज० । -याकणामुत्पा- आ० । ४ ते त- ज०, आ० । ५ नरकगर्भादि- व० । ६ - क्षयाउ- भ० ज०, प० । ७ जलादीनि । ८ मस्स्यादीनाम् ।
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy