________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५।४-६ ] पञ्चमोऽध्यायः
१८१ निस्यावस्थितान्यरूपाणि ॥ ४ ॥ नित्यानि ध्रुवाणि । "नैर्ध वे' [जैने० वा० ३।२।८२] इवि साधु । अवस्थितानि सङ्ख्यया अव्यभिचारीणि षट्त्वसङ्ख्याया अपरिहारीणि, यथासम्भवं निजनिजप्रदेशा२.
नामत्यागीनि चेतनत्वाचेतनत्वादिनिजनिजस्वरूपं न कदाचिदपि त्यजन्तीति वा अवस्थितानि ५ नित्यानि च तानि अवस्थितानि नित्यावस्थितानि । द्रव्याणां नित्यत्वमवस्थितत्वञ्च द्रव्यनयापेक्षया ज्ञातव्यमित्यभिप्रायः । न विद्यते रूपं येषां तानि अरूपाणि रूपरसादिरहितानि अमूर्तानीत्यर्थः।
तर्हि यदि द्रव्याणि अरूपाणि प्रोक्तानि तन्मध्ये पुरला अपि द्रव्यानिर्देशं प्राप्नुवन्तः । अरूपा भविष्यन्तीत्युत्सर्गप्रतिषेधार्थमपवादसूत्रमाहुः
रूपिणः पुद्गलाः ॥ ५॥ रूपं रूपरसादिसंस्थानपरिणामलक्षणा मूर्ति विद्यते येषां ते रूपिणः । अत्र नित्ययोगे इन् प्रत्ययः । तदुक्तम्
"भूमिनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्ति विवक्षायां मन्त्वादयो भवन्त्यमी ॥१॥"
[का० सू० २।६।१५ दौ० वृ० १] पूरणगलनस्वभावत्वात् पुद्गलाः । अत्र बहुवचनं परमाणुस्कन्धाद्यनेकभेदपरिकल्पनार्थ विश्वरूपकार्यदर्शनाद् वेदितव्यम् । पुद्गला रूपिणो मूर्तिमन्तो भवन्तीति तात्पर्यार्थः।।
अथ यथा पुद्गलाः प्रत्येकं भिन्ना वर्तन्ते तथा धर्माधर्माकाशा अपि प्रत्येकं किं भिन्नत्वमाप्नुवन्ति उताभेदमित्यनुयोगे सूत्रमिदमाहुः
आ आकाशादेकद्रव्याणि ॥ ६॥ आकाशमभिव्याप्य आ आकाशात् , सूत्रानुक्रमेण त्रीणि द्रव्याणि धर्मोऽधर्मः आकाशश्च एते त्रय एकद्रव्याणि अखण्डप्रदेशा भवन्ति न तु पुद्गलवत् भिन्नप्रदेशाः स्युः। धर्म एकद्रव्यम् अधम्मोपि एकद्रव्यम् आकाशोऽपि एकद्रव्यम् । बहुवचनं तु धर्मादीनां त्रयाणाम
पेक्षया । एकस्यापि अनेकार्थप्रतीत्युत्पादनसामर्थ्यायोगात् बहुवचनं कृतं तर्हि 'आ आकाशादे२५ कैकम्' इति लघुसूत्रं किमिति न कृतम् ? एवं सति सूत्रे द्रव्यग्रहणमनर्थक किमिति कृतम् ?
*साधूक्तं भवता; द्रव्यग्रहणं द्रव्यापेक्षया एकत्वकथनार्थं क्षेत्रभावापेक्षया असंख्येयत्वानन्तत्वविकल्पप्रकटनार्थं च द्रव्यग्रहणं कृतं यथा जीवद्रव्यं नानाजीवापेक्षया भिन्न भिन्नं वर्तते पुद्गलद्रव्यञ्च प्रदेशस्कन्धा पेक्षया भिन्न भिन्नमस्ति तथा धर्मोऽधर्मश्च आकाशञ्च भिन्न भिन्नं न वर्तते।
२०
१ -ख्या आ०, द०, ज० । २ -शान्न त्यजन्ति चे- आ०, ६०, ज०। ३ -णम्मा०, २०, ज०। ४ -यामन्वादेशो भ-व०। ५-प्रत्यु- आ०, २०, ज०। ६ -थ्ययोआ०, द०, ज०, २०। ७ साधु कथितं मा०, द०, ज०। ८ -स्कन्धत्वापे- मा०, ९०, ज०।
For Private And Personal Use Only