________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[५।३
१८०
तत्त्वार्थवृत्तौ 'अर्थपरिगणनेन परिगणनं न पूर्यते यतोऽन्यवादिभिः२ द्रव्याणि नव परिगणितानि वर्तन्ते अत्र तु षडेव; सत्यम् ; अत एव ज्ञायते पृथिव्यादीनां परवादिकल्पितानां द्रव्यत्वे नि (त्वनि) वृत्तिः कृता भवति । तत् कथमिति चेत् ? उच्यते-पृथिव्यप्तेजोवायुमनसां पुद्गलद्रव्येऽन्तर्भावः । उक्तश्च
"पुढवी जलं च छाया चउरिंदियविसयकम्मपाउग्गं । छविहमेयं भणियं पुग्गलदव्वं जिणिदेहि ॥ १॥ अइथूलथूलथूलं थूलं सुहुमं च सुहुमथूलं च ।
सुहुमं च सुहुमसुहुमं धराइयं होइ छम्भेयं ॥" [ वसु० सा० १८, १९]
पुद्गलद्रव्ये रूपरसगन्धस्पर्शाश्च वर्तन्ते यतः तर्हि वायुमनसोर्न रूपादिगुणयोगोस्ति कथं १० पुगलद्रव्ये अन्तर्भावः ? सत्यम् , वायुः स्पर्शवान् वर्तते कथन्न रूपादिमान् ? घटपटादिवत्
चक्षुरादिभिः ग्रहीतुं न शक्यते वायुः कथं रूपादिमान् ? तन्न; एवं सति परमाण्वादीनामपि रूपादिमत्त्वाभावः प्रसज्यते । आपस्तु गन्धवत्यः स्पर्शवत्वात् पृथिवीवत् वर्तन्ते। तेजोऽपि रसयुक्तं गन्धयुक्तश्च वर्तते तदपि रूपादिमान् (मत) घटपटादिवत् । मनो द्विप्रकारं वर्तते
द्रव्यमनो-भावमनोभेदात् । तत्र द्रव्यमनः रूपादियोगात् पुद्गलद्रव्यस्यैव विकारः रूपादिमद् १५ वर्तते, 'चक्षुरिन्द्रियवत् ज्ञानोपयोगकरणं वर्तते। भावमनस्तु ज्ञानम् , ज्ञानं तु जीवगुणः
तस्य आत्मन्यन्तर्भावः । ननु अमूर्तोपि शब्दो ज्ञानोपयोगकारणं किन्न वर्तते यन्मूर्तस्य द्रव्यमनसः ज्ञानोपयोगकारणत्वमुच्यते भवद्भिः ? सत्यम् ; शब्दः पौगलिकः, तस्यापि मूर्तिमत्त्वमस्त्येव श्रुतिस्पर्शवत्त्वात् । यथा सर्वेषां परमाणूनां रूपादिमत्कार्यत्वदर्शनात्
रूपादिमत्त्वं विद्यते न तथा वायुमनसो रूपादिमत्कार्य दृश्यते कथं वायुमनसोः पुद्गल२० द्रव्येऽन्तर्भावः ? सत्यम् ; तेषामपि-वायुमनःपुद्गलानामपि तदुपपत्तेः-दृश्यमानरूपादिमत्कार्योपपत्तेः, सर्वेषां परमाणूनां सर्वरूपादिमत्त्वकार्यत्वप्राप्तियोग्यताऽभ्युपगमात् । न च केचित् परमाणवः पार्थिवादिजातिविशेषयुक्ताः सन्ति किन्तु "जातिसङ्करेण आरम्भदर्शनं तथा वायुमनसोरपि रूपादिमत्कार्यदर्शनम् । दिशोऽपि विहायस्यन्तर्भावः, आदि
त्योदयापेक्षया आकाशप्रदेशपङ्क्तिषु "अत इदम्' इति व्यवहारोपपत्तेः। २५ अथोक्तानां द्रव्याणां विशेषपरिज्ञानार्थं सूत्रमिदमाहुः--
१ अर्थपरिगमनं आ०, ६०, ज०। २ वैशेषिकैः । “पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति द्रव्याणि ।" -वैशे० १।१५। ३ पृथ्वी जलं च छाया चतुरिन्द्रियविषयकर्मप्रायोग्याः । षविधमेदं भणितं पुद्गलद्न्यं जिनेन्द्रैः ॥ अतिस्थूलस्थूलस्थूलानि स्थूलं सूक्ष्मं च सूक्ष्मस्थूलं च । सूक्ष्मं च सूक्ष्मसूक्ष्मं धरादिकं भवति षड्भेदम् ।। ४ - कारणं भा०, ६०, ज०, २० । ५ काष्ठादनलस्य चन्द्रकान्ताज्जलस्य जलान्मुक्ताफलादेः न्यजनाच्चानिलस्योत्पत्तिदर्शनात् । ६ अतः इदं पूर्व पश्चिममित्यादि व्यवहारोपपत्तेः। इत इदं ता०, प० ।
For Private And Personal Use Only