________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५।२-३] पञ्चमोऽध्यायः
१७९ द्रव्याणि ॥२॥ 'द्र यन्ते गम्यन्ते प्राप्यन्ते यथास्वं यथायथं यथात्मीयपर्यायैर्यानि तानि द्रव्याणि । उद्रवन्ति वा पर्यायैः प्रवर्तन्ते यानि तानि द्रव्याणि । 'द्रव्यत्वयोगात् द्रव्याणि' इति कथन्न व्युत्पत्तिः ? एवं सति उभयोर्द्रव्यपर्याययोरसिद्धिः स्यात् । दण्डदण्डिनोः पृथक्सिद्धयोर्योगो भवति न तु द्रव्यपर्याययोः पृथक् सिद्धिरस्ति चेत् ; अपृथसिद्धयोरपि द्रव्यपर्याययोर्योगो ५ भवेत् , तर्हि आकाशकुसुमस्य "प्रकृतिपुरुषस्य द्वितीयशिरसश्च योगो भवेत्। यदि द्रव्यपर्याययोः पृथक् सिद्धिरङ्गीक्रियते, तर्हि द्रव्यत्वकल्पना वृथैव । यदि "गुणसमुदायो द्रव्यमुच्यते; तत्र गुणानां समुदायस्य च भेदाभावे तद्र्व्यव्यपदेशो नोपपद्यते। यदि भेदोऽङ्गीक्रियते; तदा स एष दोषः। स कः ? द्रव्यत्वकल्पनावृथात्वलक्षणः । ननु गुणान् 'द्रवन्ति गुणैर्वा द्र यन्ते यानि तानि द्रव्याणि' इति चेत् विग्रहोऽभिधीयते तदा स एव दोषः किन्न १० भवति ? सत्यम् ; गुणैः सह कथश्चिद् भेदाभेदौ वर्तेते तेन अनेन विग्रहेण द्रव्यव्यपदेशो द्रव्यनामसिद्धिरस्त्येव । कथञ्चिभेदः कथञ्चिदभेद इति कथं ज्ञायते ? यतः कारणात् व्यतिरेकेण अनुपलब्धिरभेदः, संज्ञालक्षणप्रयोजनादिभेदैर्भेदः। धर्माधर्माकाशपुद्गला इति चत्वारः पदार्था बहवः तेषां समानाधिकरणत्वं बहुत्वनिर्देशे सति सल्यानुवृत्तिवत् सर्वेषामपि पुल्लिङ्गत्यमेव द्रव्याणां प्राप्नोति, द्रव्याणीति कथम् ? तदसत् ; आविष्टलिङ्गत्वात् १५ शब्दाः कदाचिदपि लिङ्गं न १ जहति न मुश्चन्ति न व्यभिचरन्तीति यावत् । अतः कारणात् धर्माधर्माकाशपुद्रला द्रव्याणि भवन्ति इति ११नेष नपुंसकलिङ्गत्वलक्षणो दोषः।
अथ किं चत्वार एव पदार्थाः द्रव्याणीत्युच्यन्ते उताऽन्योऽपि कश्चित् पदार्थो द्रव्यमुच्यते इति प्रश्ने सूत्रमिदमाहुः
जीवाश्च ॥ ३ ॥ जीवन्ति जीविष्यन्ति जीवितपूर्वा वा जीवाः । जीवाश्च द्रव्याणि भवन्ति। चकारः द्रव्यसंज्ञानुवर्तनार्थः । बहुवचनन्तु पूर्वव्याख्यातपर्यायादिभेदपरिज्ञानार्थम् । एवं कालोऽपि द्रव्यतया वक्ष्यते, तेन सह द्रव्याणि षट् भवन्तीति ज्ञातव्यम् ।
ननु "णपर्ययवद्रव्यम" [५।३८] इत्यनेन वक्ष्यमाणसूत्रेण द्रव्यलक्षणकथनात् , तत्कथितलक्षणसंश्रयाच धर्माधर्माकाशपुद्रलजीवकालानां द्रव्यव्यपदेशः सङ्गच्छत एव । २५
१ द्रव्यन्ते मा०, द., ज० । २ -यथं यथात्मीयं प-ता। -यथमात्मीयं प-द०, आ०, प० । -यथमात्मीयप-ज० । ३ द्रव्यन्ति आ०, २०, ब०, ज०। ४ वैशेषिकमतापेक्षया । ५ प्रकृतिकुसुमस्य मा०, २०, ज०। ६ पृथगेव आ०, द०, ज०। ७ गुणसद्भावो ता०, ५०, १०, ब०, मा० | "अन्वर्थ खल्वपि गुणसन्द्रावो द्रव्यम् ।" -पात. महा० ५।१।११९ । “गुणसमुदायो द्रव्यम्” -पात महा० ४।१।१३। ८-नापृथक्त्व- भा०, ६०, ज०। ९ द्रव्यन्ति ना० । १० जहति नव्य- भा०, २०, ज० । ११ नैव भा०, ९०, ज० ।
For Private And Personal Use Only