________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ पञ्चमोऽध्यायः
अथेदानी सम्यग्दर्शनविषया जीवादयः पदार्थास्तत्र जीवपदार्थः पूर्वं व्याख्यातः, अजीव पदार्थस्तु व्याख्यातुमारब्धः तस्य नामविशेषकथनार्थं श्रीमदुमास्वामिनः सूत्रमिदमाहु:अजीवकाया धर्माधर्माकाशपुद्गलाः ॥ १ ॥
५ न विद्यते जीव आत्मा येषां ते अजीवाः, कायवत् पुगलद्रव्यप्रचयात्मकशरीरवत् बहुप्रदेशावर्तन्ते येते कायाः, अजीवाश्च ते कायाश्च अजीवकायाः, “विशेषणं विशेष्येण" [ पा० सू० २/१/५७ ] इति सूत्रेण कर्म्मधारयसमासः । अत्र अजीवा इति विशेषणं काया इति विशेष्यं तेन विशेषणं विशेष्येण सह समस्यते कर्मधारयसमासो भवति । धर्मश्च अधर्मव आकाशच पुदलव धर्माधर्माकाशपुद्गलाः । एते चत्वारः पदार्थाः अजीवकाया भवन्ति । १० ननु “ असङ्खयेयाः प्रदेशा धर्माधर्मैकजीवानाम्" [ ५८ ] इत्यप्रे बहुप्रदेशत्वं ज्ञापयि
ष्यति किमर्थमत्र बहुप्रदेशत्वसूचनार्थं कायशब्दस्य ग्रहणम् ? साधूक्तं भवता अत्र बहुप्रदेशसूचनलक्षणो विधि: कायशब्देन गृहीतः तस्यैव विधेरवधारणमये करिष्यति । किमवधारणं करिष्यति ? असङ्ख्येयाः प्रदेशाः धर्माधम्मैकजीवानाम् । किमत्रावधारणम् ? एतेषां धर्मादीनां त्रयाणां प्रदेशा असङ्ख्येया भवन्ति अनन्ताः सङ्ख्येयाश्च न भवन्तीति निर्धार१५ यिष्यति । तथा च कालप्रदेशाः प्रचयात्मका न भवन्तीति ज्ञापनार्थं कायशब्दग्रहणम् । यथा एकस्याणोः प्रदेशमात्रत्वात् द्वितीयादयः प्रदेशा न भवन्ति तथा कालपरमाणोरपि द्वितीयादयः प्रदेशा न भवन्ति, तेन कालोऽकाय इत्युच्यते । पुद्गलपरमाणोः यद्यपि निश्चयेन अबहुप्रदेशत्वमुक्तं तथापि उपचारेण बहुप्रदेशत्वमस्त्येव, यतः पुद्गलपरमाणुः अन्यपुद्गलपरमाणुभिः सह मिलति एकत्र कायवत् पिण्डीभवति, तेनोपचारेण काय उच्यते । काल२० परमाणुस्तु उपचारेणापि कालपरमाणुभिः सह न मिलति तेनोपचारेणापि काय इति नोच्यते ।
स तु स्वभावेन रत्नराशिवत् मुक्ताफलसमूहवत् पृथक् तिष्ठति ।
६४
धर्माधर्माकाशपुद्रला अजीव इति सामान्यसंज्ञा, धम्र्मोऽधर्मं आकाशः पुदलश्चेति विशेषसंज्ञा । ननु नीलोत्पलादिषु व्यभिचारो वर्तते '४ उत्पलनीलम्' इत्यादि, कथं विशेषणं विशेष्येणेति घटते ? सत्यम्; इहापि व्यभिचारो वर्तते - अजीवशब्दः कायरहिते कालेऽप्यस्ति, २५ कायशब्दः जीवेऽप्यस्ति, तेन जीवकाय इत्यपि कथ्यते, नास्ति व्यभिचारस्य दोषः ।
अथ "सर्वद्रव्यपर्यायेषु केवलस्य" [ ११२९] इत्यस्मिन् सूत्रे द्रव्यशब्दः श्रुतः । कानि तानि द्रव्याणि इत्युक्ते सूत्रमिदमाहु:
१ ति अस- आ०, ब०, द० ज० । २ - णं ते भा । ३ अबहुलप्र- आ०, ब०, ० ज० । ४ उत्पले नील- आ०, ६०, ज० ।
For Private And Personal Use Only