________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४।४०-४२]
चतुर्थोऽध्यायः अथ ज्योतिष्काणामुत्कृष्टस्थितिपरिज्ञानाथं योगोऽयमुच्यते
___ज्योतिष्काणाश्च ॥ ४० ॥ चकारः प्रकृतसमुच्चयार्थः। तेन ज्योतिष्काणां परा स्थितिः पल्योपमाधिकमिति ज्ञातव्यम् । अथ ज्योतिष्काणां जघन्यस्थितिपरिज्ञानार्थ सूत्रमिदं ब्रुवन्ति स्म
तदष्टभागोऽपरा ॥४१॥ तस्य पल्योपमस्य अष्टसु भागेषु कृतेषु एको भागः तदष्टभागा, अपरा अनुत्कृष्ठा जघन्या स्थिति] तिष्काणां भवतीति तात्पर्यम् । अत्र विशेषः कथ्यते-चन्द्राणां पल्यमेक वर्षलक्षाधिकम् । सूर्याणां पल्यमेकं वर्षसहस्राधिकम् । शुक्राणां वर्षशताधिकं पल्योपमम् । बृहस्पतीनां पल्योपममेकमेव । बुधानां पल्यार्द्धम् । नक्षत्राणाञ्च पल्यार्द्धम् । प्रकीर्णकतारकाणां १० पल्यचतुर्थभागः परा स्थितिवेदितव्या । प्रकीर्णकतारकाणां नक्षत्राणाश्च जघन्या स्थितिः पल्योपमाऽष्टमो भागः । सूर्यादीनां जघन्या स्थितिः पल्योपमचतुर्थभार्गः । तथा घ विशेषः
लौकान्तिकानामष्टौ सागरोपमानि सर्वेषाम् ॥ ४२ ॥ ये लौकान्तिकास्ते विश्वेऽपि शुक्ललेश्याः पश्चहस्तोन्मता अष्टसागरोपमस्थितय इति । १५
अस्मिन् चतुर्थेऽध्याये चतुर्णिकायदेवानां स्थानभेदाः सुखादिकम्वोत्कृष्टाऽनुत्कृष्टस्थितिश्च लेश्याश्च निरूपिता इति सिद्धम् ।। इति सूरिश्रीश्रुतसागरविरचितायां तात्पर्यसंज्ञायां तत्त्वार्थवृत्तौ चतुर्थः पादः समाप्तः ।
१ -गः लौका- आ०, द०, ज• । २ -षः ये लौकान्तिकाः ता० । ३ सूत्रमेतन्नास्ति वा. प्रतौ। ४ इत्यनवद्यगद्यपद्यविद्याविनोदनोदितप्रमोदपीयूषरसपानपावनमतिसमाजरत्नराजमतिसागरयतिराजराजितार्थसमर्थन तर्कव्याकरणछन्दोलङ्कारसाहित्यादिशास्त्रनिशितमतिना यतिना श्रीमद्देवेन्द्रकीर्चिभट्टारकप्रशिष्येण शिष्येण च सकलविद्वज्जनविहितचरणसेवस्य श्रीविद्यानन्दिदेवस्य सञ्च्छदितमिथ्यामतदुर्गरेण श्रीश्रुतसागरेण सूरिणा विरचितायां श्लोकवार्तिकराजवाति कसर्वार्थसिद्धिन्यायकुमुदचन्द्रोदयप्रमेयकमलमार्तण्डप्रचण्डाष्टसहस्रीप्रमुखग्रन्थसन्दर्भनिर्भरावलोकनबुद्धिविराजितायां तत्त्वार्थ टीकायां चतुर्थोऽध्यायः समाप्तः। भा०, ६०, ज०, ३० ।
२३
For Private And Personal Use Only