________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६ तत्त्वार्थवृत्तौ
[४१३५-३९. स्थितिरुच्यते-सौधम्मैशानयोः कल्पयोः द्वे सागरोपमे साधिके उक्त ते तु सानत्कुमारमाहेन्द्रयोः जघन्या स्थितिर्भवति । सानत्कुमारमाहेन्द्रयोः सप्तसागरोपमानि साधिकानि कथितानि तानि ब्रह्मलोकब्रह्मोत्तरयोः जघन्या स्थितिः ज्ञातव्या। एवं विजयादिपर्यन्तेषु 'वेदितव्यम् ।
अथ नारकाणां पूर्वमुत्कृष्टा स्थितिः प्रतिपादिता, जघन्या तु नोक्ता तत्परिज्ञानार्थ ५ लघूपायेन अनधिकृतमपि सूत्रमधिक्रियते। कोऽसौ लघूपायः ? 'अपरा' इत्यक्षरत्रयं वारद्वयं मा भूदिति ।
नारकाणाञ्च द्वितीयादिषु ।। ३५ ॥ नरके भवाः नारकास्तेषां नारकाणां द्वितीयादिषु भूमिषु प्रस्तारेषु च अपरा जघन्या स्थितिः भवति । चकारात् पूर्वापूर्वाऽनन्तरा इत्यनुकृष्यते । तेनायमर्थः- स्थूलतया रत्नप्रभायां १० प्रथमनरकभूमौ नारकाणामुत्कृष्टा स्थितिरेकसागरोपमं प्रोक्तं सा शर्कराप्रभायां द्वितीयनरक
भूमौ जघन्या वेदितव्या । शर्कराप्रभायां त्रीणि सागरोपमानि उत्कृष्टा स्थितिः कथिता सा वालुकाप्रभायां तृतीयनरकभूमौ जघन्या स्थितिः वेदितव्या इत्यादि यावत् सप्तमनरके द्वाविंश-- तिसागरोपमानि जघन्या स्थितिर्भवति
अथ द्वितीयादिषु भूमिषु जघन्या स्थितिः यदि प्रतिपादिता तर्हि प्रथमायां नरकभूमौ १५ का जघन्या स्थितिरिति चेत् ? उच्यते
दशवर्षसहस्राणि प्रथमायाम् ॥ ३६ ॥ वर्षाणां सहस्राणि वर्षसहस्राणि, दश च तानि वर्षसहस्राणि दशवर्षसहस्राणि प्रथमायां प्रथमनरकभूमौ दशवर्षसहस्राणि अपरा जघन्या स्थितिर्ज्ञातव्या । सा तु प्रथमपटले
सीमन्तकनाम्न्येव । द्वितीयपटले नवति वर्षसहस्राणि जघन्या स्थितिः। तृतीयपटले नवति२० वर्षलक्षाणि इत्यादि सर्वत्र समयाधिका सती जघन्या स्थितिर्ज्ञातव्या । अथ भवनवासिनां जघन्या स्थितिरुच्यते
भवनेषु च ।। ३७ ॥ भवनेषु भवनवासिषु देवेषु दशवर्षसहस्राणि जघन्या स्थितिर्भवति । चकारः अपरास्थितिरित्यस्यानुकर्षणार्थः। अथ व्यन्तराणां जघन्या स्थितिरुच्यते
व्यन्तराणाञ्च ॥ ३८॥ व्यन्तराणां किन्नरादीनां दशवर्षसहस्राणि जघन्या स्थितिर्भवति । चकारः अपरास्थिति रित्यस्याऽनुकर्षणार्थः । तर्हि व्यन्तराणामुत्कृष्टा का स्थितिरिति चेत् ? उच्यते
परा पल्योपममधिकम् ॥ ३६ । परा उत्कृष्टा स्थितिय॑न्तराणाम् एक पल्योपमं किञ्चिदधिकं भवति ।
१ -न्ते वेदितव्या व० । २ -रेक साग- आ०, २०, ज०, व०। ३ -तिर्वर्ष- ज०। ४ -तिर्दशवर्षसहस्राणि इत्यनु- ता०, व० ।
For Private And Personal Use Only