________________
Shri Mahavir Jain Aradhana Kendra
४/३२-३४ ]
www.kobatirth.org
चतुर्थोऽध्यायः
'अथ प्रैवेयकादीनां पटलेषु आयुर्विशेषप्रतिपत्त्यर्थं सूत्रमिदं प्रतिपादयन्ति - आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धौ च ॥ ३२ ॥ .
आरणश्च अच्युतश्च आरणाच्युतं तस्मादारणाच्युतात् । आरणाच्युतयोर्द्वाविंशतिसागरोपमा उत्कृष्टा स्थितिरुक्ता तत ऊर्ध्वम् उपरि नवसु ग्रैवेयकेषु एकैकेन सागरोपमेन ५ अधिक स्थितिर्देवानां वेदितव्या । तेन अधोग्रैवेयकेषु प्रथमे ग्रैवेयके सुदर्शननाम्नि त्रयोविंशतिसागरा भवन्ति । द्वितीये ग्रैवेयके अमोघनाम्नि चतुर्विंशतिरन्धयः स्युः । तृतीये मैवेयके सुप्रबुद्धनाम्नि पञ्चविंशतिर्वार्धयो भवन्ति । मध्यमत्रैवेयकेषु प्रथमत्रैवेयके यशोधरनाम्नि षड्विंशतिर्वारिधयो भवन्ति । द्वितीये ग्रैवेयके सुभद्रनाम्नि सप्तविंशतिः पयोधयो भवन्ति । तृतीये ग्रैवेयके सुविशालनाम्नि अष्टाविंशतिरम्भोधयो भवन्ति । उपरिमत्रैवेयकेषु १० प्रथमे ग्रैवेयके सुमनसनाम्नि एकोनत्रिंशदम्बुधयो भवन्ति । द्वितीये ग्रैवेयके सौमनसनाम्नि त्रिंशत् पाथोधयो भवन्ति । तृतीये प्रवेयके प्रीतिङ्करनाम्नि एकत्रिंशदर्णोधियो भवन्ति । 'नवसु प्रैवेयकेषु' इत्यत्र नवशब्दग्रहणं प्रत्येकम् एकैकसागरवृद्धयर्थम्, अन्यथा मैवेयकमात्रग्रहणे सर्वेषु मैवेयकेषु एक एव सागरो वर्द्धते तन्मा भूदिति । न केवलं नवसु मैवेयकेषु एकैकेन सागरोपमेन एकैकं सागरोपममधिकं स्यात् किन्तु विजयादिषु विजय- १५ प्रकारेषु च । तेनायमर्थः - नवानुदिशेषु द्वात्रिंशत्सागरोपमानि भवन्ति । विजयवैजयन्तजयन्तापराजितेषु चतुर्षु विमानेषु त्रयस्त्रिंशत्सागरोपमानि उत्कृष्टा स्थितिर्भवति । 'सर्वार्थसिद्धौ च ' इति पृथक्पदकरणं जघन्यस्थितिप्रतिषेधार्थम् । सर्वार्थसिद्धिं गतो जीवः परिपूर्णानि त्रयस्त्रिशत् सागरोपमानि भुङ्क्ते । विजयादिषु तु जघन्यस्थितिर्द्वात्रिंशत् सागरोपमानि ।
I
७ अथोक्तोत्कृष्टायुष्केषु कल्पवासिषु निकृष्टस्थितिपरिज्ञानार्थं सूत्रमिदमाहु:अपरा पल्योपममधिकम् ॥ ३३ ॥
अपरा जघन्या स्थितिः एक पल्योपमं किचिदधिकं भवति । तत्तु सौधम्र्मेशानप्रथमप्रस्तारे एव ज्ञातव्यम् । तत्कथं ज्ञायते उत्तरसूत्रे 'परतः परतः' इति वच्यमाणत्वात् । अथ प्रथमप्रस्तारादूर्ध्वं जघन्यस्थितिपरिज्ञानार्थ सूत्रमिदमाहुः - परतः परतः पूर्वा पूर्वानन्तरा ॥ ३४ ॥
२५
परतः परतः परस्मिन् परस्मिन् देशे प्रस्तारे प्रस्तारे कल्पयुग्मकल्पयुम्मादिषु या स्थितिः पूर्वा पूर्वा प्रथमा प्रथमा वर्तते सा अनन्तरा उपर्युपरितनी अपरा जघन्या स्थितिदितव्या । तत्रापि जघन्यापि साधिका वेदितव्या । तेन कारणेन स्थूलरूपतया जघन्या
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
१७५
१ अथ नव- आ०, ६०, ज० | २ प्रथममै - व० आ०, द० ज० । ३ द्वितीयप्रैव०, आ०, द०, ज० । ४ तृतीयमै - प० । ५ मध्यप्रै- - भा० द० ज० । ६- सिद्धिगतजी - आ०, द० ज० । ७ अथोत्कृष्टस्थित्युक्तेषु आ०, ६०, ज० ।
२०