________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्त्वार्थवृत्ती
[३॥३॥ भागश्च । ३ । गरुडनाम्नि चतुर्थपटले चत्वारः सागराः सागरसप्तभागानां षड् भागाश्च ।।। लागलनाम्नि पञ्चमे पटले सागराः पञ्च सागरसप्तभागानां चत्वारो भागाश्च । ५ । बलभद्रनाम्नि षष्ठे पटले सागराः षट् सागरसप्तभागानां द्वौ भागौ च । ६ । चक्रनाम्नि सप्तमे पटले साधिका अर्णवाः सप्त । इति सानत्कुमारमाहेन्द्रयोः सप्तप्रस्ताराणामुत्कृष्टा स्थितिर्ज्ञातव्या ।
अथ ब्रह्मलोकादिषु अच्युतपर्यन्तेषु कल्पेषु स्थितिविशेषपरिज्ञानार्थ सूत्रमिदमाहुःत्रिसप्तनवैकादशत्रयोदशपञ्चदशभिरधिकानि तु ॥ ३१ ॥
त्रयश्च सप्त च नव च एकादश च त्रयोदश च पञ्चदश च त्रिसप्तनवैकादशत्रयोदशपञ्चदश तैस्तथोक्तः अधिकानि। कानि अधिकानि ? पूर्वसूत्रोक्तानि सप्तसागरोपमानि ।
अस्यायमर्थः-ब्रह्मलोकब्रह्मोत्तरयोः सप्तसागरोपमानि त्रिभिः सागरोपमैः अधिकानि दश १० सागरोपमानीत्यर्थः। लान्तवकापिष्टयोः सप्तसागरोपमानि सप्तभिः सागरोपमैरधिकानि चतुर्दश
सागरोपमानीत्यर्थः। शुक्रमहाशुक्रयोः सप्तसागरोपमानि नवसागरोपमैरधिकानि षोडशसागरोपमानीत्यर्थः। शतारसहस्रारयोः सप्तसागरोपमानि एकादशसागरोपमैरधिकानि अष्टादश सागरोपमानीत्यर्थः । आनतप्राणतयोः सप्तसागरोपमानि त्रयोदशसागरोपमैरधिकानि विंशति
सागरोपमानीत्यर्थः । आरणाच्युतयोः सप्तसागरोपमानि पञ्चदशसागरोपमैरधिकानि द्वाविंश१५ तिसागरोपमानीत्यर्थः । तुशब्दो विशेषणार्थः । कोऽसौ विशेषः ? 'सौधम्मशानयोः
सागरोपमे अधिके' इत्यत्र अधिकशब्दाधिकारः ब्रह्मलोकब्रह्मोत्तरलान्तवकापिष्टशुक्रमहाशुक्रशतारसहस्रारपर्यन्तेषु चतुर्षु युगलेषु प्रवर्तते न वानतादिषु वर्तते इत्यर्थं विशेषयति । तेन यत्र यत्र यावन्ति सागरोपमानि उक्तानि तत्र तत्र साधिकानि वक्तव्यानि। आनतप्राणतयोः
सागरोपमानि विंशतिरेव आरणाच्युतयोविंशतिरेव न साधिकानि । २० अथ विस्तरः-ब्रह्मलोकब्रह्मोत्तरयोर्यानि चत्वारि पटलानि वर्तन्ते तेषां मध्ये अरिष्ट
नाम्नि प्रथमपटले पादहीनाः सरस्वन्तोऽष्टौ। देवसमितनाम्नि द्वितीयपटले जलधयः सार्थोऽष्ट ।२। ब्रह्मनाम्नि तृतीयपटले पादाधिका उदधयो नव ।३। ब्रह्मोत्तरनाम्नि चतुर्थपटले शशध्वजा दश । लान्तवकापिष्टयोद्धे पटले वर्तते । तत्र ब्रह्महृदयनाम्नि प्रथमपटले अपाम्पतयो द्वादश ।
लान्तवनाम्नि द्वितीयपटले नदीपतयश्चतुर्दश साधिकाः । शुक्रमहाशुक्रयोरेकमेव पटलम् । तत्र २५ शुक्रनाम्नि पटले जलनिधयः साधिकाः षोडश । शतारसहस्रारयोरेकमेव पटलं तत्र शतारनाम्नि
पटले रत्नाकराः साधिका अष्टादश । आनतप्राणतारणाच्युतेषु षट् पटलानि । तत्र आनतनाम्नि प्रथमपटले उदन्वन्त एकोनविंशतिः सागरस्य तृतीयो भागः किश्चिदधिकस्तत्र हीनो भवति । प्राणतनाम्नि द्वितीयपटले सिन्धवो विंशतिः। पुष्पकनाम्नि तृतीयपटले आकूपाराः विंशतिः
सागरभागत्रयस्य द्वौ भागौ च । शातकनाम्नि चतुर्थपटले पारावारा एकविंशतिरेव । ३० रणनाम्नि पञ्चमपटले सरित्पतयः एकविंशतिः सागरत्रिभागेकभागश्च । अच्युतनाम्नि
षष्ठे पटले समुद्रा द्वाविंशतिरेव ।
For Private And Personal Use Only