________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४/३०] चतुर्थोऽध्यायः
१७३ तथा पल्यानां षट्षष्टिलक्षाणि षट्षष्टिसहस्राणि षट्शतानि षट्षष्टिस्तथा भागत्रयस्य भागद्वयम् । १९ । तपनीयनाम्नि विंशतितमे पटले पल्यकोटीनां कोट्या त्रयोदश, त्रयस्त्रिंशल्लक्षाणि त्रयस्त्रिंशत्सहस्राणि त्रीणि शतानि त्रयस्त्रिंशत् तथा पल्यानां त्रयस्त्रिंशल्लक्षाणि त्रयस्त्रिंशत् सहस्राणि त्रीणि शतानि त्रयस्त्रिंशत् पल्यभागत्रयस्य भागैकः । २० । मेयनाम्नि एकविंशतितमे पटले पल्यकोटीनां कोट्यश्चतुर्दश । २१ । भद्रनाम्नि द्वाविंशतितमे पटले पल्यकोटीनां ५ कोट्यश्चतुर्दश षट्षष्टिलक्षाणि षट्षष्टिसहस्राणि षट्शतानि षट्षष्टिः तथा पल्यानां षट्षष्टिलक्षाणि षट्षष्टिसहस्राणि षट्शतानि षट्षष्टिः पल्यभागत्रयस्य भागद्वयम् । २२ । 'हारिद्रनाम्नि त्रयोविंशतितमे पटले पल्यकोटीनां कोट्यः पञ्चदश त्रयस्त्रिंशल्लक्षाणि त्रयस्त्रिंशत्सहस्राणि त्रीणि शतानि त्रयस्त्रिंशत् तथा पल्यानां त्रयस्त्रिंशल्लक्षाणि त्रयस्त्रिंशत्सहस्राणि त्रीणि शतानि त्रयस्त्रिंशत् पल्यभागत्रयस्य भागैकः । २३ । पद्मनाम्नि चतुर्विशतितमे पटले पल्य. १० कोटीनां कोट्यः षोडश । २४ । लोहितनाम्नि पञ्चविंशतितमे पटले पल्यकोटीनां कोट्यः षोडश षट्षष्टिलक्षाणि षट्षष्टिसहस्राणि षट्शतानि षट्षष्टिः तथा पल्यानां षट्षष्टिलक्षाणि षट्षष्टिसहस्राणि षट्शतानि षट्षष्टिः पल्यभागत्रयस्य भागद्वयम् । २५ । वननाम्नि षविंशतितमे पटले पल्यकोटीनां कोट्यः सप्तदश, त्रयस्त्रिंशल्लक्षाणि त्रयस्त्रिंशत्सहस्राणि त्रीणि शतानि त्रयस्त्रिंशत् तथा पल्यानां त्रयस्त्रिंशल्लक्षाणि त्रयस्त्रिंशत्सहस्राणि त्रीणि शतानि १५ त्रयस्त्रिंशत् पल्यभागत्रयस्य भागैकः । २६ । निन्द्यावर्तनाम्नि सप्तविंशतितमे पटले पल्यकोटीनां कोट्योऽष्टादश । २७ । प्रभङ्करनाम्नि अष्टाविंशतितमे पटले पल्यकोटीनां कोट्योऽष्टादश षट्षष्टिलक्षाणि षट्षष्टिसहस्राणि षट्शतानि षट्षष्टिः तथा पल्यानां षट्षष्टिलक्षाणि षट्षष्टिसहस्राणि षट्शतानि षट्षष्टिः पल्यभागत्रयस्य भागद्वयम् । २८। पिष्टकनाम्नि एकोनत्रिंशत्तमे पटले पल्यकोटीनां कोट्य एकोनविंशतिः त्रयस्त्रिंशल्लक्षाणि त्रयस्त्रिंशत्सह- २० स्राणि त्रीणि शातानि त्रयस्त्रिंशत् तथा पल्यानां त्रयस्त्रिंशल्लक्षाणि त्रयस्त्रिंशत्सहस्राणि त्रीणि शतानि त्रयस्त्रिंशत् पल्यभागत्रयस्य भागैकः । २९ । गजमस्तकनाम्नि त्रिंशत्तमे पटले पल्यकोटिकोट्यः विंशतिः । ३० । प्रभानाम्नि एकत्रिंशत्तमे पटले साधिकौ सागरौ द्वौ । ३१ । इति सौधर्मेशानयोरेकत्रिंशत्प्रस्ताराणाम् उत्कृष्टा स्थिति तव्या । अथ सानत्कुमारमाहेन्द्रयोरत्कृष्टस्थितिप्रतिपत्त्यर्थं सूत्रमिदमाहुः
सानत्कुमारमाहेन्द्रयोः सप्त ॥ ३०॥ सानत्कुमारश्च माहेन्द्रश्च सानत्कुमारमाहेन्द्रौ तयोः सानत्कुमारमाहेन्द्रयोः । अनयोर्द्वयोः कल्पयोः अमराणां सप्तसागरोपमानि साधिकानि उत्कृष्टा स्थितिर्भवति । तयोः सम्बन्धीनि पटलानि सप्त भवन्ति । तत्र अञ्जननाम्नि प्रथमपटले द्वौ सागरौ सागरसप्तभागानां पञ्च भागाश्च । १ । वनमालनाम्नि द्वितीयपटले सागरास्त्रयः सागरसप्तभागानां ३० त्रयो भागाश्च ।२। नागनाम्नि तृतीयपटले चत्वारः सागराः सागरसप्तभागानामेको
१ हरिद्राना- आ०, द०, ज० । २ नद्यवर्तिना आ०, द०, ज० । ३ विष्टक- ता०
.
For Private And Personal Use Only