SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१२९] चतुर्थोऽध्यायः उत्कृष्टा स्थितिः एकसागरोपमा। यथाक्रमबलान्नागानां त्रीणि पल्योपमानि उत्कृष्टा स्थितिः । सुपर्णानामुत्कृष्टा स्थितिः सार्धं पल्यद्वयम् । द्वीपानामुत्कृष्टा स्थितिः 'अर्द्धा हीनत्वात् पल्यद्वयम् । शेषाणां विद्युत्कुमाराग्निकुमारवातकुमारस्तनितकुमारोदधिकुमारदिक्कुमारनामकानां षट्प्रकाराणां भवनवासिनां प्रत्येकं साद्धं पल्योपममेकम् उत्कृष्टा स्थितिर्भवति । जघन्यां स्थिति तु भवनवासिनां कथयिष्यामीति ज्ञातव्यम् । अथेदानी व्यन्तरज्योतिष्कदेवानां स्थितिमनुक्रमप्राप्तामुल्लय वैमानिकानां स्थिति सूचयन्ति | कस्माद् व्यन्तरज्योतिष्कदेवानां स्थितेरनुक्रमप्राप्तायाः उल्लङ्घनं कृतमिति चेत् ? सत्यम् , लघुना सूत्रोपायेन तेषां स्थितिवचनं यथा भवति तदर्थमित्यर्थः । तत्र वैमानिकानां स्थितिनिरूपणे आद्ययोः कल्पयोः सौधम्मैशाननाम्नोः स्थितिनिरूपणार्थ सूत्रमिदमाहुः सौधम्मैशानयोः सागरोपमे अधिके ॥ २९॥ १० सौधर्मश्च ऐशानश्च सौधम्मैशानौ तयोः सौधम्मैशानयोः सप्तमीद्विवचनमिदम् "अधिकरणे सप्तमी" [ का० सू० २।४।११ दौर्ग० वृत्ति ] इति वचनात् । सौधम्मैशानयोः द्वयोः कल्पयोः स्थितिः द्वे सागरोपमे भवतः। 'सागरोपमे' इत्यत्र सामान्यापेक्षया नपुंसकरवे द्विवचनं वर्तते । सागरोपमञ्च सागरोपमञ्च सागरोपमे। कथम्भूते" सागरोपमे ? अधिके किञ्चिदधिके सातिरेके इत्यर्थः। "द्विवचनमनौ" [ का० सू० ३।२।२ ] "इत्यनेन १५ निषेधसन्धिः । अधिके इत्ययं शब्दः सहस्रारकल्पपर्यन्तमधिकारवान ज्ञातव्यः । तेन सानत्कुमारमाहेन्द्रयोरपि सप्तसागरोपमानि सातिरेकाणि ज्ञातव्यानि । तथा ब्रह्मलोकब्रह्मोत्तरयोरपि दश सागरोपमानि सातिरेकाणि ज्ञातव्यानि । एवं द्वयोर्द्वयोः कल्पयोरायुविशेषे सातिरेकः शब्दः प्रयोक्तव्यः। आ कुतः ? आ सहस्रारात् । आनतप्राणतयोरारणाच्युतयोश्चापि इत्यादिषु सातिरेकार्थो नास्ति । कस्मात् ? "त्रिसप्तनवैकादशत्रयोदशपञ्च- २० दशभिरधिकानि तु ।" [ त० सू० ४।३१ ] इत्यत्र सूत्रे तुशब्दस्य ग्रहणात् ।। अथ विस्तरः-सौधम्मशानयोः यानि एकत्रिंशत् पटलानि वर्तन्ते तेषु प्रत्येक स्थितिविशेषः कथ्यते । तथाहि-'ऋतुपटले पल्योपमकोटीनां षट्षष्टिलक्षाणि षट्षष्टिसहस्राणि षट्शतानि षट्षष्टिः तथा पल्योपमानां षटषष्टिलक्षाणि षट्पष्टिसहस्राणि षट्शतानि षट्षष्टिस्तथा पल्योपमस्य कृतत्रिभागस्य भागद्वयश्च ।१। चन्द्र- २५ नाम्नि द्वितीयपटले पल्योपमकोटीनामेका कोटी त्रयस्त्रिंशल्लक्षाणि त्रयस्त्रिंशत् सहस्राणि त्रीणि शतानि त्रयस्त्रिंशत् तथा पल्योपमानां त्रयस्त्रिंशल्लक्षाणि त्रयस्त्रिंशत्सहस्राणि त्रीणि शतानि त्रयस्त्रिंशत् तथा पल्योपमस्य भागत्रयस्य एको भागः । २। विमलनाम्नि HiLHHTHHi १ सार्धप- आ०, द०, ज०, व० । २ अध्यर्धही- ता.। ३ सार्धप- आ०, द०, ज०, व० । ४ इति सा- भा०, द०, ज०, २० । ५ -ते द्वे सा-ता', व०। ६ -मानो प० । .. ७ इति नि- आ०, द०, ज०। ८ - कल्पयोर्वि- मा०, द०, ज०। ९ ऋतुनाम्नि प्रथमपव० । ऋजुप- भा०, द°, ज० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy