________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७० तत्त्वार्थवृत्ती
[ ४।२७-२८ जयन्तापराजितानुदिशनामानो विमानाः, तेषु विजयादिषु विमानेषु ये अहमिन्द्रदेवा वर्तन्ते ते द्विचरमाः द्वौ चरमौ अन्त्यौ मनुष्यभवौ येषां ते द्विचरमाः, उत्कर्षेण द्वौ मनुष्यभवौ सम्प्राप्य मोक्षं गच्छन्तीत्यर्थः। कथं द्विचरमाः ? विजयादिषु विमानेषु उत्पद्य अपरित्यक्तसम्यक्त्वाः
ततः प्रच्युत्य मनुष्यभवे समुत्पद्य संयम समाराध्य भूयो विजयादिषु समुत्पद्यन्ते ततः प्रच्युत्य ५ पुनरपि मनुष्यभवं प्राप्य सिद्धिं गच्छन्ति, एवं मनुष्यभवापेक्षया द्विचरमदेहत्वं तेषां
भवति । सर्वार्थसिद्धथहमिन्द्रास्तु अन्वर्थसंज्ञत्वात् परमोत्कृष्टसुरत्वाच्च अर्थापत्तिबलादेव एकचरमा भवन्तीति ज्ञातव्यम् । "औपशमिकक्षायिकौ भावौ मिश्रस्य जीवस्य स्वतत्त्वमौदयिकपारिणामिको च"
[त० सू० २।१ ] इति सूत्रविवरणे तिर्यग्गतिरौदयिकी प्रोक्ता, पुनरपि "तिर्यग्योनि१० जानाञ्च" [त० सू० ३।३९ ] इति सूत्रे उत्कृष्टमायुः पल्यत्रयमुक्तम् , जघन्यमन्तर्मुहूर्तमुक्तम् । तत्र च न ज्ञायते के जीवास्तिर्यग्योनयः इति सन्देहे तन्निरासाथ तिर्यग्गतिः प्रतिपाद्यते
औपपादिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ॥ २७ ॥ उपपादे भवा औपपादिकाः, 'मनुभ्यः कुलकरेभ्यो भवा मनुष्याः । औपपादिकाश्च मनुष्याश्च औपपादिकमनुष्याः तेभ्यः औपपादिकमनुष्येभ्यः शेषाः अपरे संसारिजीवाः १५ तिर्यग्योनयः तिर्यश्च इति वेदितव्यम् । तत्र देवा नारकाश्च औपपादिकाः-"देवनारकाणामुप
पादः" [त० सू० २।३४] इति वचनात् । मनुष्याणामपि स्वरूपं ज्ञातमेव "प्राङ्मानुषोत्तरान्मनुष्या" [त० सू० ३।३५ ] इति वचनात् । एभ्यो ये अन्ये ते सर्वेऽपि प्राणिनः तिर्यो ज्ञातव्याः। तर्हि तिरश्वां क्षेत्रविभागो न प्रोक्तः ? सत्यम् ; सर्वस्मिन् त्रैलोक्ये
तिर्यश्चो वर्तन्त एव क क्षेत्रविभागः कथ्यते । २०
तर्हि नारकतिर्यम्मनुष्याणामायुष्यं प्रोक्तं देवानां नोक्तं देवानामायुः कीदृशमित्युक्ते प्रथमतस्तावत् भवनवासिनामायुरुच्यतेस्थितिरसुरनागसुपर्णद्वीपशेषाणां सागरोपमत्रिपल्योप
मा हीनमिताः ॥ २८ ॥ स्थितिः आयुःप्रमाणम् । केषाम् ? असुरनागसुपर्णद्वीपशेषाणाम् । असुराश्च न्यगाश्च २५ सुपर्णाश्च द्वीपाश्च शेषाश्च असुरनागसुपर्णद्वीपशेषास्तेषामसुरनागसुपर्णद्वीपशेषाणाम् । कथ
म्भूता स्थितिः १ सागरोपमत्रिपल्योपमार्द्धहीनमिता। सागरोपमा चासौ त्रिपल्योपमा च सागरोपमत्रिपल्योपमा, सा चासौ अर्द्धहीनमिता च सागरोपमत्रिपल्योपमार्द्धहीनमिताः । अथवा सागरोपमञ्च त्रिपल्योपमानि च अर्धापल्यहीनानि पल्यानि च सागरोपमत्रिपल्योपमार्द्धहीनानि तेर्मिता मपिता सागरोपमत्रिपल्योपमार्द्धहीनमिता । अस्यायमर्थः-असुराणाम्
१ मनुष्येभ्यः आ०, ६०, ज०,व० ।
For Private And Personal Use Only