SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४।२५-२६ ] चतुर्थोऽध्यायः १६९ भवा लौकान्तिकाः । न तु सर्वेऽपि लौकान्तिकाः कथ्यन्ते । तेषां विमानानि ब्रह्मलोकस्वर्गस्य अन्तेषु अवसानेषु वर्तन्ते । अथवा जन्मजरामरणव्याप्तो लोकः संसारस्तस्य अन्तः लोकान्तः, लोकान्ते परीतसंसारे' भवा लौकान्तिकाः। ते हि ब्रह्मलोकौन्ताच्च्युत्वा एकं गर्भवासं परिप्राप्य निर्वाणं गच्छन्ति तेन कारणेन लौकान्तिका उच्यन्ते । अथ सामान्यतया लौकान्तिकाः प्रोक्ताः, तेषां भेदप्रतिपत्त्यर्थं सूत्रमिदमाहुः- ५ सारस्वतादित्यवहृयरुणगर्दतोयतुषिताव्याबाधारिष्टाश्च ॥ २५ ॥ सरस्वती चतुर्दशपूर्वलक्षणां विदन्ति जानन्ति सारस्वताः। अदितेर्देवमातुरपत्यानि आदित्याः। वह्निवद्देदीप्यमाना वह्नयः । अरुणः उद्यद्भास्करः तद्वत् तेजोविराजमाना अरुणाः। गर्दाः शब्दाः तोयवत् प्रवहन्ति लहरितरङ्गवत् प्रवर्तन्ते येषु ते गर्दतोयाः । तुष्यन्ति विषयसुखपराङ्मुखा भवन्ति तुषिताः । न विद्यते विविधा कामादिजनिता आ सम- १० ! न्तात् बाधा दुःखं येषान्ते अव्याबाधाः। न विद्यते रिष्टमकल्याणं येषां ते अरिष्टाः। सारस्वताश्च आदित्याश्च वलयश्च अरुणाश्च गर्दतोयाश्च तुषिताश्च अव्याबाधाश्च अरिष्टाश्च ते तथोक्ताः । तत्र सारस्वतानां विमानमीशानकोणे वर्तते । आदित्यानां विमानं पूर्वदिशि अस्ति । वहीनां देवगणानां विमानम् अग्निकोणे तिष्ठति । अरुणानां विमानं दक्षिणदिश्यस्ति । गर्दतोयानां विमानं नैऋत्यकोणे आस्ते । तुषितानां विमानं पश्चिमदिश्यस्ति । अव्याबाधानां १५ विमानं वायुकोणे विद्यते । अरिष्टानां विमानम् उत्तरदिश्यस्ति । चशब्दात् सारस्वतादित्यानामन्तराले अन्याभसूर्याभाणां विमाने वर्तते । आदित्यवह्नीनामन्तराले चन्द्राभसत्याभानां विमाने स्तः। वह्नयरुणानामन्तराले श्रेयस्करक्षेमङ्कराणां विमाने तिष्ठतः। अरुणगर्दतोयानामन्तराले वृषभेष्टकामचराणां विमाने आसाते । गर्दतोयतुषितानामन्तराले निर्वाणरजोदिगन्तरक्षितानां विमाने विद्यते । तुषिताव्याबाधानामन्तराले आत्मरक्षितसर्वरक्षितानां विमाने २० भवतः । अव्याबाधारिष्टानामन्तराले मरुद्वसूनां विमाने स्याताम् । अरिष्टसारस्वतानामन्तराले अश्वविश्वानां विमाने स्तः। सर्वेऽपि लौकान्तिकाः स्वाधीनवृत्तयो हीनाधिकत्वभावाभावात , विषयसुखपराङ्मुखत्वाद् देवर्षयश्च कथ्यन्ते । अत एव देवानामर्चनीयाः चतुर्दशपूर्वधारिणः तीर्थक्करपरमदेवानां निष्क्रमणकल्याणे स्वामिसम्बोधनसेवानियोगाः । "चतुर्लक्षास्तथा सप्तसहस्राणि शताष्टकम् । विंशतिमिलिता एते सर्वे लौकान्तिकाः स्मृताः ॥" [ ] अथ यद्यते एकं भवं प्राप्य निर्वाणं गच्छन्ति तर्हि अन्येषामपि देवानामस्ति कश्चिनिर्वाणप्राप्तिकालविभाग इति प्रश्ने सूत्रमिदमुच्यते विजयादिषु विचरमाः॥ २६ ॥ विजयो विजयनामा विमानः स आदिः प्रकारो येषां ते विजयादयः विजयवैजयन्त- ३० १ -सारेण भ- आ०, ९०, ज० । २ -लोकाच्च्यु- भा०, द०, ज० । ३ प्राप्ताः भा० । ४ लहरीत- आ०, द०, ज.,व०। ५ -गम्बरक्षि- आ०, ६०, जः । २२ For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy