________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८ तत्त्वार्थवृत्तौ
[४।२३-२४ मारमाहेन्द्रयोः पीतपालेश्यामिश्राः सन्ति । ब्रह्मलोकब्रह्मोत्तरलान्तवकापिष्टशुक्रमहाशुक्रसंज्ञकेषु त्रिषु युगलेषु वैमानिकाः पद्मलेश्यास्तावद् वर्तन्त एव, परमयं तु विशेषः-शुक्रमहाशुक्रशतारसहस्रारेषु वैमानिकाः पद्मशुक्लमिश्रलेश्या वर्तन्ते । आनतप्राणतारणाच्युतनवप्रैवे. यकनवानुदिशपश्चानुत्तरेषु शेषशब्दलब्धेषु वैमानिकाः शुक्ललेश्यास्तावद् वर्तन्त एव, परमयं ५ तु विशेषः-नवानुदिशपञ्चानुत्तरविमानेषु चतुर्दशसु वैमानिकाः परमशुक्ललेश्या वर्तन्ते ।
___ अत्राह सूत्रे-मिश्रस्य ग्रहणं न कृतं वर्तते कथं भवद्भिः मिश्रस्य ग्रहणं कृतम् ? सत्यम् ; साहचर्यात् लोकवत्। कोऽसौ लोकदृष्टान्तः ? यथा पताकिनो गच्छन्ति छत्रिणो गच्छन्ति इत्युक्ते पताकिभिः सह ये पताकारहिता गच्छन्ति तेऽपि पताकिन इत्युच्यन्ते ये छत्रिभिः सह
छत्ररहिता गच्छन्ति तेऽपि छत्रिण उच्यन्ते । कस्मात् ? साहचर्यात् । एवं यथा अछत्रिपु छत्रि१० व्यवहारो लोके वर्तते तथा अत्रापि सूत्रानुक्तमपि मिश्रग्रहणं भवति। सूत्रतः कथं ज्ञायते
इति चेत् ? उच्यते-तत्रैवमभिसम्बन्धः क्रियते। द्वयोः स्वर्गयुगलयोः पीतलेश्या तावद् वर्तते, सानत्कुमारमाहेन्द्रयोः पद्मलेश्यायाः अविवक्षातः पीतैव । ब्रह्मलोकब्रह्मोत्तरलान्तवकापिष्टशुक्रमहाशुक्रसंज्ञकेषु त्रिषु युगलेषु पद्मलेश्या तावदुक्तैव, शुक्रमहाशुक्रयोः शुक्ललेश्यायाः
अविवक्षातः पद्मलेश्येवोक्ता। शेषेषु शतारादिषु शुक्ललेश्या तावदुक्तैव शतारसहस्रारयोः १५ पद्मलेश्याया अविवक्षातः शुक्लैवोक्ता । इत्यभिसम्बन्धे नास्ति दोषः ।
अथ कल्पोपपन्नाः कल्पातीताश्चेति यत्सूत्रमुक्तं तत्र न ज्ञायते के कल्पा येषु कल्पेषु ज्ञातेषु कल्पातीताः स्वयमेव ज्ञायन्ते इति सन्देहे सूत्रमिदमुच्यते
प्राग्वेयकेभ्यः कल्पाः ॥ २३ ॥ प्रैवेयकेभ्यो नवप्रैवेयकेभ्यः सकाशात् प्राक् पूर्वं ये वर्तन्ते ते कल्पा.भवन्ति, अच्यु२० तान्ताः सौधर्मादय इत्यर्थः । तर्हि कल्पातीताः के वर्तन्ते ? इत्याह-परिशेषभावात् इतरे नवप्रैवेयकाः नवाऽनुदिशाः पञ्चानुत्तराश्च कल्पातीता इति ज्ञातव्यम् ।
तर्हि लौकान्तिका अमरा वैमानिकाः सन्तः केषु गृह्यन्ते कल्पोपपन्नेषु कल्पातीतेषु वा ? इति प्रश्ने सूत्रमिदमुच्यते
ब्रह्मलोकालया लौकान्तिकाः ।। २४ ॥ २५ एत्य लीयन्ते तस्मिन्नित्यालयो निवासः, ब्रह्मलोकः पञ्चमः स्वर्गः तस्मिन्नालया
निकाया विमानानि येषां ते ब्रह्मलोकालयाः । तर्हि ये ब्रह्मलोके वसन्ति ते सर्वेऽपि लौकान्तिका इत्युच्यन्ते ? नैवम् ; लौकान्तिक इति संज्ञा अन्वर्था वर्तते सत्यार्था वर्तते । तेनायमर्थःलोकशब्देन ब्रह्मलोक उच्यते । “समुदायेषु निवृत्ताः शब्दा अवययेष्वपि वर्तन्ते " [ ] इति वचनात् लोकस्य ब्रह्मलोकस्य अन्तोऽवसानं लोकान्तः, लोकान्ते
१ -या तावद् व- आ०, द., ज०। २ मिश्रग्र- ता०, व० । ३ -म्बन्धेन ना- भा०, द०, ज०, ता०।४ -रविमानाश्च आ०,९०, ज० ।
For Private And Personal Use Only