________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४।२१-२२]
चतुर्थोऽध्यायः वधिविषयः । स्थितिश्च प्रभावश्च सुखं च द्युतिश्च लेश्याविशुद्धिश्च इन्द्रियावधिविषयश्च स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविषयाः, तेभ्यस्तैर्वा ततः वैमानिका अधिका भवन्ति । कुत्र ? उपर्युपरि, प्रतिस्वगं प्रतिपटलञ्च । ।
___ अथ यदि स्थित्यादिभिरुपर्युपरि अधिका वैमानिका भवन्ति तर्हि गतिशरीरपरिग्रहाऽभिमानैरप्यधिका भविष्यन्तीत्यारेकायां योगोऽयमुच्यते--
गतिशरीरपरिग्रहाभिमानतो हीनाः ॥ २१ ॥ देशाद् देशान्तरप्राप्तिहेतुर्गतिः। विक्रियाहेतुभूतं वैक्रियिक शरीरम् । लोभकषायस्योदयेन विषयेष्वासङ्गः परिग्रहः। मानकषायस्योदयात् प्रादुर्भूतोऽहङ्कारोऽभिमानः । गतिश्च शरीरश्च परिग्रहश्च अभिमानश्च गतिशरीरपरिग्रहाऽभिमानाः तेभ्यः तैर्वा ततः, वैमानिका उपर्युपरि प्रतिस्वर्ग प्रतिपटलं च हीनाः तुच्छाः भवन्ति । तथा हि-देशान्तरेषु विषयक्रीडा- १० रतिप्रकृष्टताऽभावात् उपर्युपरि गतिहीना भवन्ति । तथा उपर्युपरि वैमानिकाः शरीरेणापि हीना भवन्ति । तत्कथम् ? सौधम्मॆशानयोः वैमानिकानामरत्निसप्तकप्रमाणं शरीरम् । सानत्कुमारमाहेन्द्रयोररनिषट्कप्रमाणमङ्गं भवति । ब्रह्मलोकब्रह्मोत्तरलान्तवकापिष्टषु अरनिपञ्चकप्रमाणं वर्म स्यात् । शुक्रमहाशुक्रशतारसहस्रारेष्वरत्निचतुष्कप्रमाणः २ कायो भवति । आनतप्राणतयोररनिसार्द्धत्रितयप्रमाणो देहो भवति । आरणाच्युतयोररत्नित्रयप्रमाणो विग्रहो १५ भवति । प्रथमप्रैवेयकत्रिके अरनिसार्द्धद्वयप्रमाणं गात्रं भवति । द्वितीयवेयकत्रिके अरनिद्वयः । प्रमाणा तनूभवति । तृतीयोवेयकत्रिके नवानुदिशविमानेषु सार्द्वकारत्निप्रमाणा मूर्तिर्भवति । पञ्चाऽनुत्तरविमानेषु एकारनिप्रमाणं वपुर्भवति । विमानपरिवारादिपरिग्रहैरुपर्युपरि हीना भवन्ति अल्पकषायत्वात् । उपर्युपरि अभिमानेन च वैमानिका हीना भवन्ति । तर्हि वैमानिकेषु लेश्या कीदृशी भवतीति प्रश्ने तत्परिज्ञानार्थं सूत्रमिदमुच्यते- २०
पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु ॥ २२॥ पीता च पद्मा च शुक्ला च पीतपद्मशुक्लाः । पीतपद्मशुक्ला लेश्या येषां वैमानिकानां ते पीतपद्मशुक्ललेश्याः । अत्र ह्रस्वत्वं कथम् ? यद् उत्तरपादिकं तत् ह्रस्वं भवति यथा द्रता मध्यविलम्बिता मात्राः द्रुतमध्यविलम्बितमात्रा इति सङ्गीते ह्रस्वत्वमस्ति, तथात्रापि हस्वत्वम् । अथवा पीतश्च पद्मश्च शुक्लश्च पीतपद्मशुक्लाः, पीतपद्मशुक्लवर्णसंयुक्ताः केचित् २५ पदार्थाः कानिचिद्वस्तूनि तेषामिव लेश्या येषां वैमानिकानां ते पीतपद्मशुक्ललेश्याः। तत्र कस्य का लेश्येति चेत् ? उच्यते---द्वित्रिशेषेषु द्वे च युगले त्रीणि च युगलानि शेषाणि च सर्वाणि स्थानानि द्वित्रिशेषाणि तेषु द्वित्रिशेषेषु । अस्यायमर्थः-सौधम्मैशानयोः सानत्कुमारमाहेन्द्रयोश्च द्वयोर्युगलयोवैमानिकाः पीतलेश्यास्तावद् वर्तन्ते एव, परमयं तु विशेषः-सानत्कु
१ -कृष्टयनी-व० । -कृष्टताभा- आ०, द०, ज० । २ -णका-व० । ३ विग्रहो आ०, द०, ज०। ५ -रपादकं आ०, द०, ज० । ५ त्रीणि यु- आ०, ज० ।
For Private And Personal Use Only