SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६६ तत्त्वार्थवृत्ती [४।२० सौधम्मैशानसानत्कुमारमाहेन्द्रेषु चत्वार इन्द्राः आनतप्राणतारणाच्युतेषु चत्वार इन्द्राः। तेन कल्पवासीन्द्रा द्वादश भवन्ति । सौधर्मस्वर्गस्य सम्बन्धीनि विमानानि द्वात्रिंशल्लक्षाणि भवन्ति । ऐशानस्वर्गस्याष्टाविंशतिलक्षाणि । सानत्कुमारस्य द्वादश लक्षाणि । माहेन्द्रस्य अष्टौ लक्षाणि। ब्रह्मलोकब्रह्मो५ त्तरयोः समुच्चयेन चत्वारिंशल्लक्षाणि कथ्यन्ते । लान्तवकापिष्टयोः समुदायेन पञ्चाशतसह स्राणि भवन्ति । शुक्रमहाशुक्रयोः समुदितानि चत्वारिंशत् सहस्राणि स्युः। शतारसहस्रारयोरेकत्र षट् सहस्राणि वर्तन्ते । आनतप्राणतारणाच्युतानां चतुर्णामपि सप्तशतानि तिष्ठन्ति । प्रथमवेयकत्रिके श्रेणिबद्धपुष्पप्रकीर्णकाश्च विमानाः समुदिताः तेषामेकादशोत्तरं शतं भवति । मध्यप्रैवेयकत्रयस्य सप्तोत्तरं शतं स्यात् । 'उपरिग्रैवेयकत्रयस्य विमानानि एकाधिका नवति१० भवन्ति । नवानुदिशपटलमध्ये इन्द्रकमष्टासु दिनु अष्टौ विमानानि समुदायेन नव भवन्ति । सर्वार्थसिद्धिपटले पञ्च विमानानि सन्ति । तत्र मध्यविमानः सर्वार्थसिद्धिनामकः, पूर्वस्यां दिशि विजयः, दक्षिणस्यां दिशि वैजयन्तः, पश्चिमायां दिशि जयन्तः, उत्तरस्यां दिशि अपराजितः। सौधम्मैशानयोः विमानानि श्वेतपीतहरितारुणकृष्णवर्णानि । सानत्कुमारमाहे१५ न्द्रयोः श्वेतपीतहरितारुणानि । ब्रह्मलोकब्रह्मोत्तरलान्तवकापिष्टेषु श्वेतपीतरक्तानि। शुक्र". महाशुक्रशतारसहस्रारानतप्राणतारणाच्युतेषु विमानानि श्वेतपीतानि । नवौवेयकनवानुदिशा नुत्तरेषु श्वेतान्येव । तत्र सर्वार्थसिद्धिविमानं परमशुक्लं जम्बूद्वीपप्रमाणश्च वर्तते, अन्यानि तु चत्वारि विमानानि असङ्ख्येयकोटियोजनप्रमाणानि वर्तन्ते। एव त्रिषष्ठः पटलानां परस्परमन्तरमसङ्ख्येययोजनं ज्ञातव्यम् । २० सौधम्मैशानयोरुच्चत्वं सार्द्वका रज्जुः मेरुबुध्नाद् बोद्धव्या । सानत्कुमारमाहेन्द्रयोरपि सार्द्वका रज्जुरस्ति । ब्रह्मब्रह्मोत्तरलान्तवकापिष्टशुक्रमहाशुक्रशतारसहस्रारानतप्राणतारणाच्युतेषु द्वयोद्धयोः स्वर्गयोरुच्चता अद्धार्द्धा रज्जुः । तेन द्वादशानां स्वर्गाणां समुदितास्तिस्रो रज्जवः । वेयकादिमुक्तिपर्यन्तमेका रज्जुरुच्चतेति । अत्र यावन्ति विमानानि ऊर्ध्व लोकेऽपि तावन्ति जिनमन्दिराणि भवन्ति, तेषां नमस्कारवन्दनाऽस्तु । २५ अथेदानीं सर्वेषां वैमानिकानामन्योन्यविशेषपरिज्ञानार्थं सूत्रमिदमुच्यते भगवद्भिः स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधि विषयतोऽधिकाः ॥२०॥ निजायुरुदयात् तद्भवे कायेन सार्द्धमवस्थानं स्थितिरुच्यते । निग्रहानुग्रहसामर्थ्य प्रभावः। इन्द्रियविषयानुभवनं सुखम्। शरीरवस्त्राभरणादीनां द्युतिःप्तिः । कषायानुरञ्जिता ३० योगप्रवृत्तिलेश्या। लेश्यायाः विशुद्धिनिर्मलता लेश्याविशुद्धिः । इन्द्रियाणि च स्पर्शनादीनि, अवधिश्च तृतीयो बोधः, इन्द्रियावधयः । इन्द्रियावधीनां विषयः गोचरः गम्यः पदार्थः इन्द्रिया १ उपरिम-द०, व०, ज०, ता० । २ समुच्चयेन भ- आ०, द०, ज०। समुदाये नव व०। For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy