________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०
चतुर्थोऽध्यायः तत उपरि ब्रह्मलोकब्रह्मोत्तरस्वर्गों वर्तते । तयोश्चत्वारि पटलानि । तत्र प्रथम पटलमरिष्टं नाम । तन्मध्यप्रदेशे अरिष्टनामकमिन्द्रकविमानं वर्तते । तस्माद्विमानाच्चतुदिक्षु चतस्रः श्रेणयः प्रत्येकं चतुर्विंशतिविमानाः । विदिक्षु पुष्पप्रकीर्णकानि । प्रतिपटलं श्रेणी श्रेणौ एकैकं विमानं हीनं भवति । तेन चतुर्थे पटले ब्रह्मोत्तरनाम्नि श्रेणिविमानानि २प्रत्येकमेकविंशतिर्भवन्ति । तत्र "चतुर्थे पटले दक्षिणश्रेणौ द्वादशस्य ५ विमानस्य स्वामी ब्रह्मो नाम देवेन्द्रो वर्तते । उत्तरश्रेणौ तु द्वादशस्य कल्पविमानस्य स्वामी ब्रह्मोत्तर इति । इत उत्तरं लान्तवकापिष्टसंज्ञकौ द्वौ स्वर्गौ वर्तेते। तयोर्द्व पटले ब्रह्महृदयलान्तवनामके । तत्र लान्तवपटले मध्यप्रदेशे लान्तवं नामेन्द्रकविमानमस्ति। तस्य विमानस्य चतुर्दिक्षु चतस्रः श्रेणयः प्रत्येकमेकोनविंशतिविमानाः। तत्र दक्षिणश्रेणौ नवमं विमानं लान्तवेन्द्रो भुनक्ति । उत्तरश्रेणौ तु नवमं विमानं कापिष्टः प्रतिपालयति।
तत उपरि शुक्रमहाशुक्रनामानौ द्वौ स्वर्गौ वर्तते । तयोर्द्वयोरपि स्वर्गयोरेकमेव पटलं वर्तते तस्य नाम महाशुक्रं भवति । तस्य पटलस्य मध्यप्रदेशे महाशुक्र नाम इन्द्रकविमानं वर्तते । तस्य विमानस्य चतुर्दिनु चतस्रः श्रणयः सन्ति प्रत्येकमष्टादशविमानाः। तत्र दक्षिणश्रेणौ द्वादशं विमानं शुक्रन्द्रो भुनक्ति । उत्तरश्रेणिगं द्वादशं कल्पविमानं महाशुक्रः शास्ति । तदुपरि शतारसहस्रारनामानौ स्वर्गौ वर्तेते । तयोर्द्वयोरपि एकमेव पटलं वर्तते १५ सहस्रारनामकम् । तस्य मध्यप्रदेशे सहस्रारं 'नामेन्द्रकविमानम् । तस्माश्चतुर्दिक्षु चतस्रः श्रेणयो निर्गताः प्रत्येक सप्तदशविमानाः । तत्र दक्षिणश्रेणौ नवमं विमानं शतारेन्द्रस्य, तथोत्तरश्रेणौ नवमं विमानं सहस्रारेन्द्रस्य । ते द्वे अपि विमाने क्रमात् शतारसहस्रारनामके। एवं सर्वत्र इन्द्रनाम्ना विमाननाम ज्ञातव्यम् , विभजनन्तु पूर्ववद् वेदितव्यम् ।
ततः परम् आनतप्राणतारणाच्युतनामानश्चत्वारः स्वर्गा वर्तन्ते । तेषां चतुर्णामपि स्वर्गा- २० णां पटलानि षट् भवन्तीति सिद्धान्तवचनम् । तेषु षट्सु पटलेषु चतुर्दिक्षु श्रेणिविमानानि प्रदिक्षु च प्रकीर्णकविमानानि । तत्र अन्त्यपटलमच्युतनामकम् । तस्य मध्यप्रदेशे अच्युतं" नामेन्द्रकविमानं भवति । तस्माच्चतुर्दिक्षु चतस्रः श्रेणयो निर्गताः प्रत्येकमेकादशविमानाः । तत्र दक्षिणश्रेणौ षष्ठं विमानं यद् वर्तते तस्य स्वामी आरणेन्द्रः । तथोत्तरश्रेणौ षष्ठं विमानम- २५ च्युतेन्द्रः पाति । किं क्रियते लोकानुयोगनाम्नि १२ सिद्धान्त आनतप्राणतेन्द्रौ नोक्तौ तन्मतानुसारेण इन्द्राश्चतुर्दश भवन्ति । मया तु द्वादशोच्यन्ते, यस्मात् ब्रह्मेन्द्रानुवर्ती ब्रह्मोत्तरेन्द्रः, लान्तवेन्द्रानुवर्ती कापिष्टेन्द्रः, शुक्रेन्द्रानुवर्ती महाशुक्रेन्द्रः, शतारेन्द्रानुवर्ती सहस्रारेन्द्रः ।
१ -न्द्रवि- आ०. द०, ज० । २ प्रत्येक वि- व० । ३ -भवति श्रा०, द., ज० । ४ चतुर्थप- आ०, द०, ज०। ५ -स्य वि- आ०, ६०, ज०। ६ -को स्व- आ०, द०, ज० । ७ महाशुक्रशुक्र ता । ८ -कं द्वा-व०। ९ नवमकमिन्द्र-- आ०, ज०, द. । १० द्रष्टव्यम्त्रिलोकसा० गा० ४६८ । ११ -तनामे- व० । १२ “सोहम्मीसाणसणक्कुमारमाहिंदब्रम्हुलंतवया । तह सुक्क सहरसारा आणदपाणद य आरणचुदया ॥ एवं बारसकापा.. ' सोहम्मो ईसाणो' . . ' इय सोलसकप्पाणि मणते ये इ आयरिया" पाठान्तरम् -त्रिलोक प्रज्ञ० वैमानिक० ।
For Private And Personal Use Only